Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 5
________________ काव्यमाला । महाकविश्रीमद्वाग्भट विरचितं नेमिनिर्वाणम् । சிமுை प्रथमः सर्गः । श्रीनाभिसूनोः पदपद्मयुग्मनखाः सुखानि प्रथयन्तु ते वः । सेमं नमन्नाकिशिरः किरीटसंघट्टविस्रस्तमणीयितं यैः ॥ १ ॥ निःशेषविद्येश्वरमाश्रयामि तं बुद्धिहेतोरजितं जिनेन्द्रम् । अवादि सर्वानुपधातवृत्त्या येनागमः संगमितस्थितार्थः ॥ २ ॥ आदित्यचक्रेण कृतैककालप्रदक्षिणप्रक्रमणेन भक्त्या । लुप्तेव नालोक्यतं यस्य कायच्छाया स वः पातु जिनस्तृतीयः ॥ ३॥ श्रेयांसि दिश्यादभिनन्दनो वः स सर्वदा यस्य दृढव्रतस्य । व्यर्थीभवन्ती हृदि पुष्पबाणबाणावलिर्मुक्तिवरखगासीत् ॥ ४ ॥ अपारसंसारसमुद्रनावं देयाद्दयालुः सुमतिर्मतिं नः । नित्यप्रियायोगकृते यदन्ते तपस्यतीवाविरतं रथाङ्गः ॥ ५ ॥ पद्मासनस्थः स्फुटपद्मनेत्रः पद्मारुण श्रीर्वृतपद्मलक्ष्मा । पद्मप्रभो नः प्रभवेऽस्तु नित्यं पद्माप्रदानोद्यतपाणिपद्मः ॥ ६ ॥ १. अयं च श्रीमान्वाग्भटमहाकविः कदा कतमन्महीमण्डलं मण्डयामास - इति गवेषणायां वाग्भटालंकारे आदियमकाद्युदाहरणेषु 'कान्तारभूमौ -' ( ६।४६) इत्यादिप्रकृतकाव्यस्थपद्यानां संगृहीतत्वेन वाग्भटालंकारकर्तृवाग्भटतोऽस्य वाग्मटस्य प्राचीनत्वमैक्यं वा कल्पनीयम्. आये जन्मभूमिसमयानिश्वयः अन्ये वाटालकारभूमिकातो निर्णेयः. २. सममेककालम्

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 124