SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । महाकविश्रीमद्वाग्भट विरचितं नेमिनिर्वाणम् । சிமுை प्रथमः सर्गः । श्रीनाभिसूनोः पदपद्मयुग्मनखाः सुखानि प्रथयन्तु ते वः । सेमं नमन्नाकिशिरः किरीटसंघट्टविस्रस्तमणीयितं यैः ॥ १ ॥ निःशेषविद्येश्वरमाश्रयामि तं बुद्धिहेतोरजितं जिनेन्द्रम् । अवादि सर्वानुपधातवृत्त्या येनागमः संगमितस्थितार्थः ॥ २ ॥ आदित्यचक्रेण कृतैककालप्रदक्षिणप्रक्रमणेन भक्त्या । लुप्तेव नालोक्यतं यस्य कायच्छाया स वः पातु जिनस्तृतीयः ॥ ३॥ श्रेयांसि दिश्यादभिनन्दनो वः स सर्वदा यस्य दृढव्रतस्य । व्यर्थीभवन्ती हृदि पुष्पबाणबाणावलिर्मुक्तिवरखगासीत् ॥ ४ ॥ अपारसंसारसमुद्रनावं देयाद्दयालुः सुमतिर्मतिं नः । नित्यप्रियायोगकृते यदन्ते तपस्यतीवाविरतं रथाङ्गः ॥ ५ ॥ पद्मासनस्थः स्फुटपद्मनेत्रः पद्मारुण श्रीर्वृतपद्मलक्ष्मा । पद्मप्रभो नः प्रभवेऽस्तु नित्यं पद्माप्रदानोद्यतपाणिपद्मः ॥ ६ ॥ १. अयं च श्रीमान्वाग्भटमहाकविः कदा कतमन्महीमण्डलं मण्डयामास - इति गवेषणायां वाग्भटालंकारे आदियमकाद्युदाहरणेषु 'कान्तारभूमौ -' ( ६।४६) इत्यादिप्रकृतकाव्यस्थपद्यानां संगृहीतत्वेन वाग्भटालंकारकर्तृवाग्भटतोऽस्य वाग्मटस्य प्राचीनत्वमैक्यं वा कल्पनीयम्. आये जन्मभूमिसमयानिश्वयः अन्ये वाटालकारभूमिकातो निर्णेयः. २. सममेककालम्
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy