Book Title: Nandanvan Kalpataru 2010 10 SrNo 25 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ नन्दनवनकल्पतरोः शाखा चतुर्विंशतिः प्राप्ता । सानन्दं पठिता । 'महावीरवाणी' इत्यत्र पूज्यत्वप्राप्तये कथं जीवनं यापनीयं इति सम्यक् सम्पादितम् । धर्माभासकुलकेन त्वस्माकं सर्वेषां मिथ्याऽहङ्कारो दूरीभवति । स्याद्वादसिद्धान्ताः – त्रैलोक्यमण्डनविजयस्य शोभन्तेतराम् । जैनदर्शनस्य हृदयमयं स्याद्वादः । अभ्यासकानां कृते सरलतया दत्तः । जैनदर्शने मुक्तिविभावना अत्र त्रैलोक्यमण्डनविजयेन सरलभाषायां विविधदर्शनानां मुक्तेविभावना दर्शिता । त्यागः कथा इदानीं स्वार्थरसिकानामअस्माकं जनानामतीव बोधदायिकाः । प्रायश्चित्तम् – इत्यत्र प्राणिनः परोपकारं कृत्वा किमपि न कथयन्ति किन्तु तेषां अभावे एव तैः कृतः परोपकारो ज्ञायते । पाइयविन्नाणकहा धर्मराज-प.पू.प्रात:स्मरणीयकस्तूरसूरिमहाभागानां कृतयः स्वयमेव अनन्यसदृशा अत्यन्तबोधदायिन्यः आबालगोपालानां हितकराः सन्ति । मुनिविश्रुतयशविजयः अयि भो आर्यवराः ! - भवद्भिः प्रेष्यमाणाः सर्वा अपि नन्दनवनकल्पतरोः सञ्चिका उपलभ्यन्ते । महते सन्तोषाय समजनि नन्दनवनकल्पतरोश्चतुर्विंशीं सञ्चिकां दृष्ट्वा । प्रतिसञ्चिकमुत्कृष्टपत्रेषु मुद्यमाणो नन्दनवनकल्पतरुरतितमां मुदे भवति । यद् भवद्भिर्विद्युत्प्रेषण(email ) व्यवस्था कारिता तत् साधु । 8 इति - एस्. जगन्नाथः मैसूरुः ॥Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 128