Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 67
________________ इति । द्विसन्धानकाव्यमेकं दण्डिना रचितमासीदिति ज्ञायते । किन्तु तन्नोपलभ्यते । अत उपलभ्यमानेषु द्विसन्धानकाव्येषु धनञ्जयकृतं राघवपाण्डवीयमेव प्राचीनतममिति निःशङ्क वक्तुं शक्यते । ग्रन्थकर्तुर्देशः मतं च । दक्षिणभारते प्रसिद्धः कर्णाटदेशो धनञ्जयेन जन्मना पवित्रीकृतः । नवमे शतके राष्ट्रकूटवंशीया राजानो देशमिमं शशासुः ये जैनधर्ममनुययुः । धनञ्जयो जैनपुराणानुसारेणैव रामायणकथां निबद्धवान् । द्विसन्धानकाव्ये प्रथमं पद्यमेव तस्य धर्मं निर्दिशति श्रियं जगदोधविधौ विहायसि व्यदीपि नक्षत्रमिवैकमुद्गतम् । स यस्य वस्तीर्थरथस्य सुव्रतः प्रवर्तको नेमिरनश्वरी क्रियात् ।। नेमिभविंशस्तीर्थकरः । सव्रतो नाम विंशस्तीर्थकरः । द्वितीयपद्ये च जैनप्रसिद्धं श्रुतस्कन्धाख्यं ग्रन्थं स्मरति धनञ्जयः । सतीं श्रुतस्कन्धवने विहारिणीम् अनेकशाखागहने सरस्वतीम् । गुरूप्रवाहेण जडानुकम्पिना स्तुवेऽभिनन्द्ये वनदेवतामिव ॥ इति । एवं कथाप्रारम्भेऽपि गणाग्रणीरिति प्रसिद्ध गौतमगणधरं चतुर्विशतीर्थकरं महावीरं च स्मरति । अथाऽपरागोऽप्यपरागतां गतः स पश्चिमोऽपि प्रथमो विपश्चिताम् । अनुज्ञया वीरजिनस्य गौतमो गणाग्रणीः श्रेणिकमित्यवोचत ।। इति । अतः कवेर्धर्मस्य विषये नैव विवादः । कर्णाटदेशे लब्धजन्मना तेन सन्धानकाव्यपरम्पराऽऽरब्धेति निश्चप्रचं वदन्ति विपश्चिदपश्चिमाः । श्लेषालङ्कारस्य पूर्वं प्रसिद्धत्वेऽपि तस्य समस्ते पद्यकाव्ये कथाद्वयनिरूपणायोपयोग इति विशेषः खल्वयम् ।। धनञ्जयस्य कृतयः राघवपाण्डवीयं (द्विसन्धानकाव्यम्), नाममाला, अनेकार्थनाममाला, विषापहारस्तोत्रम्इति चतस्रः कृतयो धनञ्जयविरचिताः । तस्य लोके कीर्तिस्तु द्विसन्धानकाव्यावलम्बिन्येव । एवमुच्यते

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128