Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 103
________________ ग्रन्थसमीक्षा 'आजादचन्द्र शेखरचरितम्' (खण्डकाव्यम्) (समीक्षक: डा. रूपनारायणपाण्डेयः, मनीकापूरा, सोराम:, प्रयाग: (उ.प्र.) प्रणेताः स्वामीरामभद्राचार्यः प्रकाशक: श्रीराघवसाहित्यप्रकाशननिधिः वसिष्ठायनम्, रानी गली, भूपतवाला, हरिद्वार: (उ.प्र.) । प्रथमसंस्करणम् - विक्रमाब्दः २०५३ । पृ. सं. ८ + १०० । मूल्यम् - ३१ रुप्यकाणि । वीरभोग्या वसुन्धरा । भारतवर्षस्य स्वाधीनतायै यैर्वीरप्रवरैः क्रान्तिकारिभिश्च स्वप्राणाः सहर्षं बलिवेद्यां समर्पिताः, तेषु क्रान्तिकारिशिरोमणिः आजादचन्द्रशेखरः प्रमुखो वर्तते । तस्यैव महनीयकीर्तेश्चरितं ‘आजादचन्द्रशेखरचरितम्' इति खण्डकाव्ये कविवरेण श्रीगिरिधरमिश्रेण वर्णितम् । ग्रन्थप्रणयनकाले श्रीमिश्रमहाभागः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्याचार्यद्वितीयवर्षीयच्छात्रोऽभूत् । साम्प्रतं सः 'स्वामी रामभद्राचार्यः' इति नाम्ना विश्रुतः सर्वाम्नाय श्रीतुलसीपीठाधीश्वर - श्रीमज्जगद्गुरुरामानन्दाचार्य-पदमलङ्करोति । ९३

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128