Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 113
________________ रङ्गमञ्चः मृदादास्प्रहसनम् डॉ. अभिराजराजेन्द्रमिश्रः प्रहसनपात्र-परिचयः मृदङ्गदास:-पाखण्डपरायणः कश्चित्साधुः पुरुषः- कश्चिन्नागरिक: कुम्भदासः-मृदङ्गदास-शिष्यः (प्रथमः) रक्षिपुरुषः-अङ्गभङ्गदासनामा कश्चित् रक्षिपुरुषः नकुलदासः- मृदङ्गदास-शिष्यः (द्वितीयः) प्रथमं दृश्यम् (कश्चित् पाखण्डपरायणः कृतकसाधुः नगरोपकण्ठस्थिते उद्याने वितानमातत्य निवसति । तस्य प्रवञ्चनकुशला अनुयायिनः तन्महिमानं प्रचार्य मुग्धान् जनान् समस्या-सङ्कट-व्याधिग्रस्तान् तदन्तिकमानयन्ति, समस्यानिवारणनाटकं च विधाय धनं मुष्णन्ति) कुम्भदासः (कमपि रोगग्रस्तं जनं दृष्ट्वा तत्कुटुम्बिनं प्रति) भद्र ! औषधालयं गच्छसि ? को नु रोगोऽस्य जनस्य ? भो मम तातोऽयम् ? अयं श्वासरोगग्रस्तः । कदाचिदेवं प्रतीयते यदिदानीमेव श्वासस्ट्यति । मृत्युभयं जायते। पुरुषः १०३

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128