Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 115
________________ कतिपयक्षणैरेव समुत्थाय नृत्यं करिष्यति । (मृदङ्गदासोऽकस्मादेव समुत्थाय नृत्यति) मृदङ्गदासः शिव शिव ! हर हर ! विषमभुजगधर ! करडमरुकधर ! जटाजूटविकलितगङ्गाधर ! ककरित् खकरित् गकरित् घकरित् चकरित् छकरित् जकरित् झकरित् टकरित् ठकरित् डकरित्, ढकरित् तकरित् थकरित् दकरित् धकरित, नकरित् पकरित् फकरित् बकरित् भकरित्, मकरित्..... नकुलदासः (नटवेषं विधाय गुरुणा सहैव नृत्यन्) शठ शठ शठ शठ ! कितव कितव शठ ! अलमलमधिकवधिकवलनैस्तव ! जनमागतमिममञ्चय वञ्चय शोषय घोषय ताडय मारय सुहृदां क्षुधं तुषञ्च निवारय । धिक्कत धिक्कृत धिक्कत ! धिकरित् धिकरित् धिकरित् धिक्कृत ! श्वसरित् श्वसरित् श्वसरित् श्वसरित् । (सर्वमवगत्य मृदङ्गदासः शान्तो जायते, मूर्छा चाऽभिनयति) कुम्भदासः (जनं प्रति) दृष्टं भवता? सम्प्रति गुरुवर्यो देवदर्शनं करिष्यति । तैः सह वार्तालापं करिष्यति । शक्तिञ्च सम्प्राप्य चेतनो भविष्यति । पुरुषः तदाऽस्माकं समस्यां श्रोष्यति ? कुम्भदासः अथ किम् ! पश्य पश्य, चैतन्यमापद्यते योगिराजः । मृद्ङ्गदासः (अर्धमुन्मील्य नेत्रे) वत्स कुम्भदास ! श्वासव्याधिग्रस्तोऽयं वृद्धः । कण्ठामतवटीमस्मै देहि । यदि रोगोऽवशिष्यते तर्हि सप्तमे दिवसे पुनराह्वय । कुम्भदासः श्रुतं बन्धो ! सप्तमाद् दिवसात्पूर्वमेव रोगोऽयं नंक्ष्यतीति गुरूणामाशयः । सर्वार्थसिद्धिकरीयं श्वासवटी। (कुटीरात् वटीमानीय प्रयच्छति) (सविनयम्) किम्मया देयम् ? कुम्भदासः भो नाऽयमौषधालयो, न चाऽत्र किञ्चित् निश्चितं शुल्कम् । श्रद्धया देयम् । करुणावतारोऽयं योगिराजः । लोकोपकारायैव औषधिनिर्माणं कुरुते महता श्रमेण ! अस्मादृशा औदरिकाश्चाऽपि तैरेव पालनीयाः ! पश्यत्येव भवान् ! (इत्यट्टहासं जनयति) भवतु । श्रद्धयैव दास्यामि । (इति पञ्चशतरूप्यकाणि समर्प्य शनैर्गच्छति) पुरुषः पुरुषः १०५

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128