Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 121
________________ - भवांस्तु सर्वथा परावृत्तः ! केशाः पलिताः, मुखं विच्छायं,कटिश्च भग्ना दृश्यन्ते । किं जातं भवतो रमणलाल !? + नाऽहं रमणलालः ! - अहो ! भवता नामाऽपि परावर्तितं वा ?! अपूर्वः ह्यो रात्रौ मे पत्नी स्वप्ने - 'कोट्यधिपतिं परिणीताऽह'मिति दृष्टवती किल! अद्वितीयः सुखी भवान् खलु । मत्पत्नी तु दिवाऽप्येवमेवाऽऽचरति ननु ! विदग्धः दग्धः किम् ? भवतो विवाहश्छलेन जातो वा ? कथं ननु ? यया भुषुण्डिकया भाययित्वा परिणायितोऽहं तस्यां गुलिकैव नाऽऽसीत् !! - + भवान् कियतः कालादत्र कार्यं करोति ननु ? यत्प्रभृति मुख्याधिकारिणा पदच्यतेर्भयं दर्शितम् !! (प्राणिसङ्ग्रहालये-) दर्शकः एते वानराः किमिति मुक्ता भ्रमन्ति ? कर्मकरः अरे ! अद्य तेषामवकाशदिनमस्ति । दर्शकः अवकाशदिनम् ! तेषां कथमवकाशदिनम् ? कर्मकरः अद्य चार्ल्स-डार्विन-महोदयस्य जन्मदिनं खलु !! १११

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128