Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 119
________________ गर्म-गर्म कीर्तित्रयी गृहस्वामी द्वादशेभ्यो मासेभ्यो भवता भाटकं नैव दत्तम् । अधुनैव ददातु तद्, अथवा गृहं त्यक्त्वा गच्छतु । भाटकिकः भोः ! वयं हि कुलीनाः स्मः । यावद् भवते सर्वमपि भाटकं न दद्याम तावद् गृहमिदं त्यक्त्वा नैव गमिष्यामः । (एकदा कस्यचिदधिकारिणः सचिवः कार्यालये विलम्बेनाऽऽगत: ) अधिकारी किमर्थं भोः ! अद्य विलम्बः ? सचिवः प्रभो! मम घटिकायन्त्रं किञ्चिद्विलम्बेन चलति, अत: । अधिकारी एवम् ! तर्हि शीघ्रमेव भवता घटिकायन्त्रं परावर्तनीयम्, अथवा मया सचिवः परावर्तनीयः ॥ १०९

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128