Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ ततो द्वावपि सपरिवारौ प्रग एव कार्यानेन प्रस्थितौ । होरार्धेनैव हि तौ अहमदाबादतः प्रायस्त्रिंशत्किलोमिटरदूरे स्थितं साणंद-नगरमतिक्रम्याऽग्रे गतौ । कार्यानं वेगेन गच्छदासीत् । तेन सह श्यामवर्णो मार्गोऽपि धावन्निवाऽभिलक्ष्यते स्म, तथा मार्गस्य पार्श्वद्वये स्थिता वृक्षा अपि ननु धावन्त एवाऽदृश्यन्त । मार्गस्त्वनन्त इव सुदूरं गच्छति । स हि सर्वानपि नयति यत्र कुत्राऽपि । केवलं गन्तव्यं मनसि निश्चितं भवेत् । अत्र तु कार्यानस्थितानां सर्वेषामपि मनसि एकमेव ध्येयमासीत् – शङ्केश्वरतीर्थम् । तत् प्राप्तुं काऱ्यानं वेगेन धावदासीत्, सर्वेषां मनांस्यपि तेन सहैव धावन्त्यासन् । सार्धघण्टामितेनैव कालेन ते विरमगाम-नगरं प्राप्ताः । रेल्-वेसमपार(crossing)पार्वे एव त्रिवेदिमहोदयेनोक्तं – 'जितुभाई ! यानं स्थगयतु, किञ्चित् प्रातराशादिकं कृत्वैवाऽग्रे गच्छेम' । 'भवत्वि'त्युक्त्वा जितुभाई यानं मार्गप्रान्ते स्थगितवान् । सर्वेऽपि बहिरागताः । चाय-पानादिकं कर्तुं यावत् ते प्रस्थितास्तावतैव पृष्ठत आगतः स फकीरो याचमानः । द्वावपि सुहृदौ तन्मुखं विलोकितवन्तौ – 'नूनमस्य मुखे क्षुधाकुलत्वं लक्ष्यते । प्रायशः द्वित्रदिनैरप्यनेन न किञ्चित् खादितं स्यात्' । स उदरं हस्तेन संस्पृशन् वदन्नासीत् – 'अये खुदाभक्तौ ! किञ्चिद् ददतामशितुम्' ।। जितुभाई परितो दृष्टवान् । पार्वे एव एकस्मिन् हट्टे भाणि भृज्ज्यन्ते स्म । उत्तप्ते तैलपूर्णे भाजने 'छम्' इति शब्देन पिष्टखण्डः पतति स्म क्षणार्धेन च भयं पक्वीभूय तैले तरति स्म । तद् दृष्ट्वा स पुनरपि फकीरमुखं दृष्टवान् । तत्र क्षुद्वेदनाऽङ्किताऽऽसीत् इतश्च तदुपशमनमासीत् । अतः स हट्टं गत्वाऽऽपणिकाय 'द्विशतग्राममितानि भया॑णि पुटके बद्ध्वा ददातु' इति आदिष्टवान् । तेनाऽपि तत्कालमेव पुटकं बद्ध्वा दत्तं, जितुभाई च तत् स्वीकृत्य यथोचितं मूल्यं दत्तवान् । ततः फकीरपाइँ गत्वा तस्य ग्रहणोत्सुकयोर्हस्तयोस्तत् पुटकं मुक्तवान् उक्तवांश्च – 'खादतु भोः !' । 'सलाम् श्रेष्ठिन् ! अल्लाह उदारहृदयाय भवते बहु दास्यति' इत्येवं तमाशीभिरनुगृह्य स एकस्य विशालनिम्बवृक्षस्याऽधस्ताद् बद्धे पीठके उपविष्टः । जितुभाई तमेव पश्यन्नासीत् । इतश्च रेल्-मार्गे यातायातं प्रचलदेवाऽऽसीत् । आगते हि रेल्-याने समपारद्वारे पिधीयेते स्म, गते च तस्मिन् ते उद्घाट्येते स्म । तत उभयतोऽपि जनानां वाहनानां च सम्मर्द एव प्रचलति स्म, कोलाहलेन समग्रोऽपि परिसरो मुखरितो भवति स्म । रेल्-पट्टिकाया समान्तरमेवाऽऽसीद् विरमगामनगरम् । अतः समपारपाश्र्वे एवैका विपणिरिव विकसिताऽऽसीत् । लघूनि उपाहारगृहाणि अन्ये ऽपि च दैनन्दिनव्यवहारोपयोगिवस्तूनामापणास्तत्राऽऽसन् । जितुभाईत्रिवेदिमहोदयश्चाऽपि तत्रैवैकस्मिन् उपाहारगृहे चाय-पानादि कर्तुमुपविष्टावास्ताम् । अथ तावतैको जनो, यो चिरादेव तयोश्चेष्टितं पश्यन्नाऽऽसीत् स, तत्राऽऽगत एतयोश्च समीप एवोपाविशत् । फकीराय जितुभाई यद् भर्त्यपुटकं दत्तं तदपि स दृष्टवानासीत् । स तौ द्वावपि समुद्दिश्य कथितवान् - 'श्रेष्ठिन् भवतेदं समीचीनं नैव कृतम्' ।

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128