Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 108
________________ कथा क्षुधित: फकीरः मुनिकल्याणकीर्तिविजयः __ 'श्रेष्ठिन् ! अहमतीव क्षुधातुरोऽस्मि, किञ्चिद् खादितुं ददातु कृपया' – पृष्ठतः सहसैतच्छ्रुत्वा जितुभाईशाहः तन्मित्रं त्रिवेदिमहोदयश्चेति द्वावपि मुखं परावर्त्य विलोकितवन्तौ । स आसीदेकः खञ्जः फकीरः । श्यामवस्त्रावृतो देहः, कण्ठे रक्त-पीतादिवर्णमय्यः पञ्चषा मालाः, दी? श्मश्रू-कूचौं, मस्तके श्यामवर्णं वस्त्रबन्धनं, कक्षे कक्षावलम्बनी यष्टिका, मुखं च क्षुद्वेदनाकुलम् । द्वावपि सुहृदौ शङ्केश्वरपार्श्वनाथतीर्थं प्रति तीर्थयात्रार्थं प्रस्थितावास्ताम् । जैनेषु तीर्थेषु शङ्केश्वरतीर्थमतीव विश्रतम । सर्वोऽपि हि जैनस्तत्तीर्थयात्राकरणार्थमत्को भवत्येव । अनयोरपि द्वयोस्तत्तीर्थं प्रति पार्श्वनाथभगवन्तं च प्रति हार्दा भक्तिरनन्या श्रद्धा-चाऽऽस्ताम् । अतो द्वाभ्यामपि परस्परं निश्चितमासीद् यद् - 'यदा कदाचिदप्यवकाशश्चेत् प्राप्येत तदा तीर्थयात्रा करणीया - सार्धमेव, तथा तीर्थं गत्वा श्रीपार्श्वनाथभगवतः पूजनादि करणीय'मिति । जितुभाई शाह: जैन आसीत् । तस्य तु कुलपरम्परया बाल्यादेव तीर्थकरभगवतः प्रति दृढा श्रद्धाऽऽसीत् । तीर्थयात्रादिकरणतश्च सा प्रत्यहं दृढतरा जायमानाऽऽसीत् । त्रिवेदिमहोदयस्तु निवृत्तः शासकीयाधिकारी आसीत् । स नाऽऽसीज्जन्मतो जैनः, किन्तु जितुभाईमैत्र्या तेन सार्धं सर्वत्राऽपि गतागतं कुर्वतस्तस्य हृदयेऽपि तीर्थं तीर्थङ्करं च प्रति सद्भूता श्रद्धा भक्तिश्च समुदिते । अतो यदा कदाऽपि स तेन सह तीर्थयात्रार्थं प्रतिष्ठते स्म। ह्य एव जितुभाई तं दूरभाषेण पृष्टवानासीत् – 'किमाजिगमिषति ?' 'कुत्र?' तेन प्रतिपृष्टमासीत् । 'शङ्केश्वरतीर्थं भोः !' 'अवश्यं वयस्य !, तीर्थयात्रा त्वस्माकं श्रद्धां पुष्णाति । अस्मिश्च कलिकाले श्रद्धैवाऽस्माकं जीवने उत्साहं प्रेरयति शक्तिं च वर्धयति । अहमवश्यमागमिष्यामि' ।

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128