Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 102
________________ बन्धो ! भिन्न-भिन्नाः सम्प्रदायास्तु सामाजिकव्यवस्था आसन्, न तु धर्मव्यवस्थाः । जीवनं सरलं स्यात्, व्यवहारोऽपि सुकरः स्यात्, इत्यर्थमेषा व्यवस्था कृता; किन्तु कालक्रमेण सम्प्रदाया एव धर्मा जाताः । ततस्तस्य तस्य सम्प्रदायस्याऽनुयायिनोऽनुक्रमेण जैनाः, बौद्धाः, शैवाः, वैदिकाः, मुस्लिमाः, जैस्ताः इति रूपेण प्रसिद्धा जाताः । पश्चात्त्वेकस्यैव धर्मस्याऽनुयायिष्वपि विभागा जाताः । एकस्याऽनुयायिनो विरोधपक्षवद् द्वितीयस्याऽनुयायिनो निन्दन्ति तिरस्कुर्वन्ति च । अहो ! एकमेव धर्मं गुरुं मतं चोररीकुर्वन्तो जना अपि परस्परं क्लेशादिकं कुर्वन्ति-एतत्त्वतीव लज्जास्पदमस्ति । यदा सामाजिकव्यवस्थास्वरूप: सम्प्रदायोऽपि धर्मरूपेण स्वीकृतस्तदैवेतद् दुःखं पापं च प्रकटीभूतम् ।। भोः ! किं नाम धर्मः ? यः सत्कार्ये नीति-सत्यनिष्ठा-सात्त्विकतादिसद्गुणेषु मानवान् संयोजयति न त वियोजयति, समाधानं समादरं च शिक्षयति न तु तिरस्कारमनादरं च, अन्येषां लघुमपि गुणं स्वीकर्तुं कथयति न तु महादोषमपि, राग-द्वेष-मोहवृत्तिं विहाय प्रेम-करुणा-वात्सल्यं च ग्रहीतुं शिक्षयति । एवं धर्मो न सङ्कचिततायां तुच्छतायां च किन्त्वौदार्ये गम्भीरतायां चाऽस्ति । पूज्यपादश्रीहरिभद्रसूरिणा षोडशकप्रकरणे कथितं यत्, स्वतो हीनवृत्तिमत्सु जीवेष्वपि द्वेषस्तिरस्कारश्च न करणीयः - एतत्तु धर्मप्राप्तौ सोपानमाद्यम् । एवमहितकरेषु जीवेष्वपि प्रेम-वात्सल्यं च करणीयम् - एतत्तु धर्मसिद्धेर्लक्षणमस्ति । अत एव मयोक्तं धर्म औदार्ये गम्भीरतायां चैवाऽस्ति । बन्धो ! अस्माकं दुर्भाग्यं यद, यो धर्मोऽस्मभ्यमौदार्यादिगणानां स्वीकारार्थं समादिशति तस्य धर्मस्य व्याजेनैव वयं सङ्कुचितता-तिरस्कार-क्लेशादिकं कुर्मः । सर्वत्र स्वधर्मस्य प्रचारं विस्तारं च प्रवर्द्धयितुं चित्ते उन्मादो जागृतोऽस्ति । ततोऽन्येषां धर्मरीतिं निन्दित्वा त्रोटयित्वा च स्वस्वधर्म प्रवर्धयितुं प्रयतामहे । किन्त्वेष न धर्मोऽपि तु सम्प्रदायमोहः । सम्प्रदायमोहो नाम दृष्टिरागः । दृष्टिरागो जीवने न कदाऽपि समत्वं ददाति । अपेक्षया स्नेहरागादपि दृष्टिरागोऽतिभीमोऽस्ति । स्नेहरागोऽपाकर्तुं शक्यः, किन्तु दृष्टिरागस्तु सतामपि दुरुच्छेदः । दृष्टिरागस्तु चित्तेऽहङ्कारमुन्मत्ततां च जनयति न तु समत्वम् । यावन्न चित्ते समत्वं स्थिरीभूतं तावद् मोक्षसुखस्य वार्तयाऽलम् । ___ अन्ते, जैनोऽजैनो वा यः कश्चिदपि समत्वस्याऽऽलम्बनेन मोक्षसुखं प्राप्तुं शक्तोऽस्ति । ततस्त्वमपि समत्वस्याऽऽचरणेन झटिति शिवसुखमनुभवः - इत्याशासे ।

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128