Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
भिन्न-भिन्नधर्माणामुपासकेषु सत्स्वपि ये ये जीवा राग-द्वेषौ नाशयन्ति तथा समभावं स्वीकुर्वन्ति ते ते जना एव मोक्षभाजिनोऽभवन् भवन्ति भविष्यन्ति च । सर्वेषामपि धर्माणां सम्मतमस्ति-समत्वमेव मोक्षस्य मूलमस्ति-इति । एवं तेषां चरमलक्ष्यमपि मोक्ष एवाऽस्ति । केवलं समभावः कया रीत्या प्राप्यते तदेव निश्चेतव्यम् । १४४४ शतग्रन्थप्रणेता पूज्यपादश्रीहरिभद्रसूरिराह
एक एव तु मार्गोऽपि तेषां शमपरायणः ।
अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ।। (योगदृष्टिसमुच्चयः - १२८)
यस्य कस्यचिदपीष्टदेवस्याऽवलम्बनेन समभावस्य साधनयैव मोक्षोऽवाप्यते । ततोऽत्र यः कश्चिदपि धर्मोपासको जनो मोक्षमवाप्तुमर्होऽस्ति । आत्मकल्याणस्य कृते बाह्यलिङ्गानि नाऽऽवश्यकानि सन्ति, किन्त्वनुकूलपरिस्थित्यां प्रतिकूलपरिस्थित्यां वाऽनुद्विग्नीभूय समभावपूविकया दृढभावनया निश्चल श्रद्धया च स्वस्वमान्यतानुरूपं यस्य कस्यचिदपि निर्धारितेष्टदेवस्य निराशंसभावेनोपासना करणीयैतदेवाऽऽवश्यकमस्ति ।
महोपाध्यायवाचकश्रीयशोविजयेन कथितम्भावलिङ्गं हि मोक्षाङ्गं द्रव्यलिङ्गमकारणम् ।
(अध्यात्मसारे आत्मनिश्चयाधिकारे - १८३) भवता कियती प्रभूपासना कृता, कियत्तपः कृतं, धर्मकार्येषु कियान् धनव्ययो विहितः - इत्यादिकस्य न मूल्यम्, अपि तु कीदृश्या विशुद्धभावनया कृतमेतत्सर्वमित्यस्यैव मूल्यमस्ति । शुद्धचित्तभावनया कृतोपासनैव कर्मक्षये निमित्तीभूताऽस्ति । निर्मला परिणतिर्विशुद्धा अध्यवसायाश्चैवाऽऽत्मोत्थानस्याऽऽधाररूपाः सन्ति । यावत्यधिकी निर्मला परिणतिस्तावत्यधिकी ज्ञेयाऽऽत्मविशद्धिरपि । यथा यथाऽऽत्मविशद्धिर्वर्धते तथा तथाऽत्मकल्याणमपि झटिति भवति । एतेनैव ज्ञायते यः कोऽपि धर्मोपासको मोक्षभाग भवितुं योग्योऽस्ति ।
उक्तम्
नाऽऽशाम्बरत्वे न सिताम्बरत्वे, न तत्त्ववादे न च तर्कवादे । न पक्षसेवाश्रयणेन मुक्तिः, कषायमुक्तिः किल मुक्तिरेव ।।
(उपदेशतरङ्गिण्यां तपोविभागे)
उक्तं च
बुद्धो जिनो हृषीकेशः, शम्भुर्ब्रह्मादिपुरुषः । इत्यादिनामभेदेऽपि, नाऽर्थतः स विभिद्यते ।।
(परमात्मपञ्चविंशतिका - ९)

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128