Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 88
________________ धन्योऽसि ॥ प्रा. चन्द्रिका वा. पाठकः केवलं स्वार्थसिद्ध्यर्थं प्रवर्तन्ते नराधमाः । परेषां हितबुद्ध्यैव प्रवर्तन्ते नरामराः ।। मम पितुर्जीवन-व्यवहारे एतादृशी भावना बहुधा चरितार्था दृष्टा । मम पिता श्रीहरिशंकरव्यासः,अमदावादनगरस्य प्रतिष्ठितो न्यायनिपुण (वाक्कीलः - Lawyer) आसीत् । श्रुत्वा ज्ञात्वा च तस्य साफल्यं न्यायालये, मार्गदर्शनं सहयोगं च प्राप्तुं बहव आगच्छन्ति स्म । एतेषु, कृतापराधाः, दुष्टमतिमन्तः, जिह्माश्चाऽपि आसन् । किन्तु, धनं नैवाऽस्ति सर्वस्वं विवेकस्तु महान सदा। विवेकोपार्जितं द्रव्यं धर्मवृद्धिं करिष्यति ।। इति सुभाषितसारमवगत्य व्यवसायविवेके जागृतः सः, तेषां समर्थने निजाशक्तिं निवेदयित्वा विरमति । साहाय्यार्थमागतस्य जनस्य निवेदने यदि स्वच्छताया ध्वनिः, निर्दुष्टत्वं वा लक्ष्येते, तर्हि एव स सन्निष्ठतया तस्य साहाय्यं करोति । एकदा, एकस्य धर्मसम्प्रदायस्य प्रतिष्ठितोऽध्यक्षः साधुरस्मद्गृहमागतः । तस्य स्वागतं सप्रमाणमकरोत् मम पिता। शनैः शनैर्गदगदितेन स्वरेण स निजवेदनां निवेदयामास । सोऽकथयद् यद् - अस्माकं सम्प्रदायस्यैकोऽनुयायी धनवानस्ति । अनीत्या प्राप्तेन धनेन तेन प्रतिष्ठा प्राप्ता । सम्प्रदायस्याऽनुयायिनोऽपि तं बहु मन्यन्ते । किञ्चित्कालपूर्वं, तस्याऽनीतिपूर्णो मदिराविक्रयस्य व्यवसायो मया ज्ञातः । तमाहूय, मया प्रीत्योक्तं - भ्रातः ! मनुष्या वयम् । अन्येषां सुखं चिन्तयित्वैवाऽऽदर्शो व्यवसाय: कार्यः । मद्यपानेनोन्मत्तो जनः, स्वकीयं चाऽहितं साधयति । वय॑ एष दुष्टो व्यवसायः । दुष्टव्यवसायेनोपाजितं द्रव्यमीश्वरसेवायामपि ७८

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128