Book Title: Nandanvan Kalpataru 2010 10 SrNo 25
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 92
________________ सुख-शान्तिकृते मुनिकल्याणकीर्तिविजयः मम मित्रस्य पिता सहसैकदा स्वग्रामाद् मम गृहमागमत् । एवमागमने वयं सर्वेऽपि विस्मयान्विता जाता: । तदात्वे दूरवाणीव्यवस्थाऽतीवाऽल्पाऽऽसीत् । किन्तु पत्रद्वारा विद्युत्तन्त्रीद्वारा वाऽपि तेन सन्देशो न प्रेषित: इति तु किञ्चिदाश्चर्यप्रेरकमासीत् । अस्तु, अस्माभिस्तु तस्योचिता परिचर्या कृता । प्रातराशादनन्तरं सर्वं स्पष्टं जातं यत् स स्वस्य लघोः पुत्रस्य कृते कन्यां द्रष्टुमागत आसीत् । तस्येच्छाऽऽसीद् यत् कन्या गुणवती सौम्या च स्यात्, धनस्य नास्ति तावदावश्यकता । स सर्वमपि विवरणं कुतोऽपि सङ्गृह्य एव आगत आसीद्, अतो वयं तत्सूचिते परिवारगृहे कन्यां द्रष्टुं गता: । यद्यपि सा साधारणपरिवारीयाऽऽसीत् तथाऽपि तस्याः सौम्यस्वभावो गुणवत्त्वं चाऽस्मान् प्रभावितानकुरुताम् । तत्परिवारोऽप्यतीव सौजन्यशील आसीत् । मित्रपित्रा तु स्वमनसा सर्वमपि निश्चितमेव । किन्तु लघुपुत्रस्य सम्मतिरावश्यक्यासीदतस्तमपि प्रेषयित्वा दर्शिता कन्या । सोऽपि सम्मतिं प्रकटितवान् । तत उभयपक्षीयैरपि मीलित्वा सर्वा अपि व्यवस्थाश्चिन्तयित्वा विवाहदिनं निश्चितम् । देयादेयस्याऽपि व्यवस्था चिन्तिता । किन्तु कन्यायाः पिता स्वां पुत्रीं द्वितोलक ( प्रायो द्वाविंशतिग्राम) मितं सुवर्णमेव दित्सति स्म । I ८२

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128