Book Title: Nandanvan Kalpataru 2010 10 SrNo 25 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 6
________________ मान्या, कीर्तित्रयी, प्रणामाः । प्रणम्यन्ते सादरं सम्पूज्याः सद्गुरुचरणाः । सारस्वतसमारम्यां नानाचार्यसुशोभिताम् । प्रसन्नाचार्यपर्यन्तां वन्दे विद्वत्परम्पराम् ।। अनिवार्यमावश्यकं च सूचितम् अस्माकमयनपत्रस्य २४तमे अङ्के यत् साक्षरताभियानं स्यात् संस्कारदायकं पुनः । शिक्षकः शिक्षितस्स्याच्च संस्कारैश्शोभते तथा ।। जीवने सफलं सर्वं सु-फलं च भविष्यति ।। एवं कृते, प्रोज्ज्वलं भविष्यति सर्वमिति निश्चितम् । एष विवेकः । विना विवेकं विफलं सर्वम् ॥ - लेखकानां निवास-निर्देशन सम्पर्कः शक्यः । प्रशस्यमिदम् ।। २५तमस्याऽङ्कस्य विमोचनं संस्कृत-संस्कृति-समुपासकानां सद्गुरुवर्याणां शुभाशीर्वादैः, संस्कृते समारोह सम्पन्नं स्यादित्यपेक्ष्यते, प्रार्थ्यते च सादरम् । सन्निष्ठाः सारस्वताः लेखकाः तत्र सम्मानिता एव भवेयुः ।। सुज्ञैः सर्वं सुधामयम् ॥ वयं तत्र सहयोगिनः ॥ विदुषां वशंवदत्वेन, वासुदेवः पाठकः, 'वागर्थः'Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 128