Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 390
________________ करणदमों "न सक्का न सोउ सद्दा, सोतविसयमागया । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। 3 4 न सक्का रूवमद्दट्टु, चक्खुविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। न सक्का गंधमग्घाउं, नासाविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। नसक्का रसमस्साउं, जीहाविसयमागयं । दोसा उ जे तत्थ, भिक्खू परिवज्ज ।। 6 नसक्का फासमवेएउं, फासविसयमागयं । रागदोसा उ जे तत्थ, ते भिक्खू परिवज्जए ।। " ३३१ अत्रेन्द्रियपञ्चकथा यथा कर्णेनोक्तम् - ‘उन्नतोऽहं विज्ञानताहेतुः, शास्त्रस्थानम्, संसारे प्रथमविषयोपभोगस्थानम्, जन्मनि प्रथमं शब्दः श्राव्यते, सर्वदिग्भ्यः श्रावी ।' - - [आचाराङ्ग-२/३/१७९] अपरैरुक्तम् - 'त्वं सच्छिद्रो मध्यकुटिलः, अन्तर्मलिनः ।' अथ नेत्रम् 'अहं सच्छत्रं सतेजः सस्नेहम् ।' अन्यैरुक्तम् - ‘त्वं हृदये मलिनम्, कातरम्, सजलम् ।' अथ नासिका - ‘उन्नता, प्रतिष्ठाहेतुः, सरला, माध्यस्थमेव सर्वतः, सर्वेन्द्रियमध्ये मुखमण्डनं नासिका।' अन्यैरुक्तम् - परमन्तर्मलिना, हृद्शून्या, द्विमुखा, वादिते शुभकार्यनिवारका । अथ स्पर्शनम् - अहं सर्वेन्द्रियाणां मूलभूतम्, ममेन्द्रियमुख्यता दीयताम् । अन्यैरुक्तम्- मा ब्रूहि त्वं बीभत्सम् । 2. न शक्या न श्रोतुं शब्दाः श्रोत्रविषयमागताः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् । 3. न शक्यं रूपमद्रष्टुं चक्षुर्विषयमागतम् । रागद्वेषौ तु यौ तत्र तो भिक्षुः परिवर्जयेत् ।। 4. न शक्यो गन्ध आघ्रातुं नासाविषयमागतः । रागद्वेषौ तु यौ तत्र तो भिक्षुः परिवर्जयेत् ।। 5. न शक्यो रसः अस्वादयितुं जिह्वाविषयमागतः । रागद्वेषौ तु यौ तत्र तौ भिक्षुः परिवर्जयेत् ।। 6. न शक्यः स्पर्शः अवेदयितुं स्पर्शविषयमागतः । रागद्वेषौ तु यो तत्र तौ भिक्षुः परिवर्जयेत् ।।

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468