Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३४० mom
wrommaraaman. 'मन्नह जिणाण आणं' स्वाध्यायः
“ता तुंगो मेरुगिरी, मयरहरो ताव होइ दुत्तारो । ता विसमा कज्जगइ, जाव न धीरा पवज्जति।। [पवज्जाविहाणकुलक - २२] ता विच्छिन्नगयणं, तावच्चिअ जलहिणो अ गंभीरा ।
ता गुरुआ कुलसेला, धीरेहिं न जातु लिज्झति ।।" ततो वार्यमाणोऽपि स निष्क्रान्तः, अनायकं राज्यमित्यन्यो भ्राता वारितो लौकैः । पश्चाद् बहुकालं प्रव्रज्यां विधायान्यदा दुस्सहतया परीषहोपसर्गाणां विचित्रत्वात्कर्मपरिणत:, अनादिभवाभ्यस्ततया विषयलोलतायाः, जातभग्नव्रत-परिणाम: कण्डरीकोऽचिन्तयदधितिष्ठामि तत्प्राक्प्रतिपन्नं राज्यमित्याकूतेनागच्छत्स्वपुरम्, स्थितो बहिरुद्याने, निवेदितस्तत्पालेन राजे, किमेकाकी ? इति विमर्शात्कतिचिदाप्तपुरुषपरिकरः समागतो राजा । दृष्टोऽव-लम्बिततरुशाखापात्रो दूवितानोपरिवर्ती स तेन । ततो लक्षिततदभिप्रायो राजामात्यादीनुवाचमया वार्यमाणेनानेनाग्राहि व्रतम्, अधुनाऽयं राज्यं गृह्णातु, वयं पुनरेतदिति वदता च ददिरे तस्मै राज्यचिह्नानि, जगृहे तल्लिङ्गम् । जगाम गुर्वभिमुखम्, इतरोऽपि राज्यविष्टरमध्यास्य तद्दिन एव भूयो भक्षयित्वोत्पन्नविसूचिको रारट्यमानो भ्रष्टप्रतिज्ञोऽद्रष्टव्योऽयमिति लोकैनिन्दनादुल्लसिततीव्ररौद्रध्यानो मृत्वा गतः सप्तमनरकपृथिवीम्। पुण्डरीकः पुनर्गत्वा गुर्वन्तिकं करोमि निष्कलङ्कं संयममित्याविर्भूततीव्रशुभपरिणामोऽनुचितानुपानत्काऽवनिगमनेन गलच्चरणरुधिरः समुदीर्णक्षुत्पिपासापरीषहस्तथाप्यविचलितसत्त्वस्तद्दिन एव मृत्वा गतः सर्वार्थसिद्धिमिति ।।
॥ इति पुण्डरीक-कण्डरीककथा ।। एवं तस्य तद्दिन एव सर्वार्थसिद्धगमने प्रधानं कारणं परिणाम एव । यदुक्तम् -
एगदिवसं पि जीवो, पव्वज्जमुवागओ अनन्नमणो । जइ वि न पावइ मोक्खं, अवस्स वेमाणिओ होइ ।। उपदेशमाला-९०]
।। अथ श्रीस्कंदमुनिसम्बन्धः ।। कार्तिकपुरेऽग्निर्नृपः वसुमती राज्ञी पुत्र्यः - बन्धुमती, शिवसेना, श्रीमती, स्वयम्प्रभा, लक्ष्मीवती, कृत्तिका चेति । अन्यदा कृत्तिका रक्तेन पित्रैव परिणीता । गर्भे नवमासिके शरोवनोद्यानवाप्यां
५. 'विषयलोलतया च' हस्त० । ६. 'परिणामः' हस्त० नास्ति । ७. व्रतम् । ८. धर्मं गृहीत्वा ततो गुर्वन्तिके पुनव्रतं
गृहीत्वा सर्वार्थसिद्धौ गतः इति । 10. तावत् तुङ्गो मेरुगुरिः, मकरध्वजस्तावद् भवति दुस्तरः ।, तावत् विषमा कार्यगतिः, यावत् धीरा न प्रव्रजन्ति ।। 11. तावदविच्छिन्नगगनं, तावदेव जलधयश्च गंभीरा । तावद् गुरुकाः कुलशैला, धीरैः न जातु लज्ज्यते । 12. एकदिवसमपि जीवः प्रव्रज्यामुपागतोऽनन्यमना । यद्यपि न प्राप्नोति मोक्षमवश्यं वैमानिको भवति ।।

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468