Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
पभावणा तित्थे ।
mmmmmmmm ३५१
तद्भार्या शीलवती, तयोः पुत्रौ महीधर-महीपालाख्यौ । कर्मदोषान्महीपालो देशान्तरभ्रमी जातः, तत्स्नेहान्महीधरो विरक्तोऽभूत् । तत्र श्रीजिनदत्तसूरिरस्ति । अन्यदा भवोद्विग्नो महीधरस्तत्पार्श्वे प्रव्रज्यामयाचीत्। सूरिस्तत्पितरौ पृष्ट्वा तं च योग्यं ज्ञात्वा प्रव्रज्यां तस्य ददौ । अनेकविद्याभृतं स्वपदे न्यस्य श्रीगुरु: स्वर्गतः ।
शाखानुगतनाम्नाऽसौ श्रीराशिलगुरुस्तत: । विद्याविनोदत: कालं गच्छन्तमपि वेद न ।। महीपालोऽपि राजगृहे श्रुतकीर्तिदिगम्बरैः प्रबोध्य प्रव्राजितः । सुवर्णकीर्तिरिति तस्य नाम दत्तम् ।
श्रुतकीर्तिगुरुस्तस्यान्यदा निजं पदं ददौ । श्रीमदप्रतिचक्राया विद्यां च धरणार्चिताम् ।। परकायप्रवेशस्य कलां चासुलभां कलौ । भाग्यसिद्धां प्रभुः प्रादात् तादृग्योग्या हि तादृशः ।। तत्पुरागतवाणिज्यकृद्भ्यो ज्ञात्वा जनन्यथ । जगाम मिलनायास्य भर्तरि त्रिदिवं गते ।। तत्र सा मिलिता, आह च - 'जैनधर्मेक्येऽपि द्वयोः पुत्रयोः सामाचारिभेदः कुत: ?'
ततस्त्वं पूर्वजस्थाने, समागच्छ मया सह । यथोभौ भ्रातरौ सम्यक् गृहीत धर्ममेककम् ।। अहमप्येकस्मिन् धर्म लगामि, स मातुरुपरोधेन विजहे वायटे पुरे, सोदरौ मिलितौ तत्त्वं विचारयतः । दिगम्बर: श्वेताम्बरेण प्रबोधितः ।
तावन्यदा सवित्र्या च भिक्षावृत्त्यै निमन्त्रितौ । महाभक्त्या तदाचारदर्शनार्थं च किञ्चन ।।
एकः शुश्रुषितस्थालीवृन्दे भोज्यविधिः कृतः । सामान्यो मध्यमस्थानेष्वपरः प्रवरः पुनः ।। पूर्वं दिगम्बर आकारितः, तेन रम्यभाण्डस्थो भोज्यविधिरादृतः, मध्यमस्थानस्थं शीतं दग्धं कदन्नं दृष्ट्वा मुखादिविकारः कृतः । द्वितीयपुत्रस्य साधुयुग्ममागतं प्राह-'भोज्यद्वयमप्याधाकर्मदोषेण दुष्टमस्माकं न कल्पते' इत्युक्त्वा पश्चाद्गतम् । इति श्वेताम्बरगिरा मातृप्रतिबोधगिरा च स प्रबुद्धः स्वबन्धुना प्रव्राजितः। योग्यं ज्ञात्वा तं श्रीराशिलगुरुः स्वपट्टे न्यस्य स्वर्जगाम । श्रीजीवदेवसूरिनाम्ना ख्यातः, यतिपञ्चशतीरूपतत्परिवार:, सोऽन्यदा वीरभवने व्याख्यां कुर्वन्नेकेन मन्त्रशक्तिमता योगिना दृष्ट: । चिन्तितं च तेन, अस्य चेत्किमपि छलं कुर्वे तदा मम शिक्षितं प्रमाणं विमृश्येति सभामध्यमध्यासीन: स्वलोलया पर्यंकमाबध्य भुमावुपविष्टः । वाचकस्य रसज्ञां च स्तब्धवान् ।
स्वशक्त्या वाचने शक्तं स्वं विनेयं विधाय च । अमुञ्चत् समये व्याख्यामव्याकुलमनाः प्रभुः ।। तस्य पर्यस्तिकाभूमावासनं वज्रलेपवत् तस्थौ । ततः स आह - 'करसम्पुटं संयोज्य महाशक्ते ! मां मुञ्च ।' कैश्चित् दयालुभिः श्राद्धैर्विज्ञप्तः प्रभुस्तममुञ्चत् । ३. 'श्रीजिनसूरि' हस्त० । ४. 'दृष्ट्वा' हस्त० । ५. 'भाग्य... तादृशः ।।' हस्त० नास्ति । ६. 'तत्रा' हस्त० ।
७. 'सामाचारीभेदः' हस्त० । ८. 'धर्म संविचार्यार्यसम्मतम् ।' प्रभावकचरित्रे ।

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468