Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 414
________________ पभावणा तित्थे mmmmmmmmmmmmmmmmmmmmmmmmmmmmm ३५५ अस्तु च प्रथमो बण्ट: श्रीवीरव्रतिनां तथा । सदाऽन्तरं न कर्त्तव्यं भूमिदेवैरतः परम् ।। प्रतिष्ठितो नवाचार्य: सौवर्णमुपवीतकम् । परिधाप्याभिषेक्तव्यो ब्राह्मणैर्ब्रह्ममन्दिरे ।।' इत्यङ्गीकृते तैर्लल्लो गुरुपादयोर्मोलिं निवेश्याह - 'प्रभो ! महास्थानं समुद्धर ।' श्रीजीवदेवसूरिश्च प्राहोपशमवर्मित: । कालत्रयेऽपि नास्माकं रोष-तोषौ जनद्विषौ ।। प्रत्युहव्यूहघातिन्यः परं शासनदेवताः । इदानीमपि ता एव भलिष्यन्ति मम स्मृतौ ।। ___ इत्युक्त्वा सूरयो ध्यानेऽऽसीना: । अन्तर्मुहूर्तेन गौर्ब्रह्मवेश्मत उत्थाय बहिर्निर्गत्य ब्राह्यप्रदेशभूमौ निरालम्बाऽपतत् । गुरव आस्थानमाजग्मुः, वेदोदिताभिराशीभिर्विप्रैश्चक्रे जयध्वनिः । जिनधर्मः स्फातिमान्। श्रीसङ्घमुखानि सप्रकाशानि, पूज्या अन्यत्र विजहुः । कालं ज्ञात्वा योग्यं शिष्यं पट्टे न्यवीविशन् । गच्छप्रवर्तकस्याथादेशं राहस्यिकं ददुः । योगी प्रतिहतोऽस्माभिर्यः पुरा सिद्ध एव सः ।। अनेकसिद्धिसंयुक्त एकखण्डकपालवान् । अस्माकं निधनं ज्ञात्वा स चागन्तात्र निश्चितम् ।। अप्यस्माकं कपालं चेत् सैष प्राप्स्यत्यधर्मधीः । शासनस्योपसर्गास्तद् विधास्यति तथाविधान् ।। तत: स्नेहं परित्यज्य निर्जीवेऽस्मत्कलेवरे कपालं चूर्णनीयम् । इहार्थे मामकीनाज्ञा, यत इत्थं शासनरक्षा भाविनी । इति नवसूरेः शिक्षा प्रदाय सम्यगाराध्य वैमानिकसुरेषूत्पद्यन्त । ततो लब्धलक्षः सदण्डमुद्दण्डं परिगृह्य कपालं तथा चूर्णयामास यथाऽऽकारोऽपि नेक्ष्यते । सङ्घ शोकाद्वैतं महत्युत्सवे गुरुशिबिकां गीतार्था वहन्ति । अस्मिन्नवसरे डमरुकध्वानभैरवो योगी तत्राययौ । पुरुषोऽयं कोऽतीत इत्यपृच्छच्च लोकम्, तत्रैको विप्रोऽश्रूणि मुञ्चन्-'महाभाग ! महास्थानधरोद्धारवराहः श्रीजीवदेवसूरिर्दिवमीयिवान्,' इत्याह । इदं श्रुत्वा कूटशोकः स वक्षोध्नन् पूत्कारमुच्चैः कृत्वा भृशमरोदत् । एकदा भो ! मदीशस्य मुखं दर्शयत, अन्यथा स्वशिरोधातं कृत्वा प्राणान्त्यक्ष्यामि । प्रवर्तकेन शिबिकां भुवि मोचिता, तन्मुखमुद्घाटितम्, तच्चूर्णितं दृष्ट्वा हस्तौ घृष्टवान् । एकखण्डं कपालं श्रीविक्रमादित्यभूपते: ममाचार्यस्यास्य स्यात्पुण्यपुरुषलक्षणम्। करे चेन्ममेदमचटिष्यत् तदा मन्मनोरथाः सिद्धिमयास्यन् । किं कुर्वे, अभाग्यरिदृशं न प्राप्यते । जीवता च मृतेनाप्यनेनाहं घृष्ट एव मित्रेण । परं तथापि लोकोऽस्य संस्कारे मां दिशत्वसौ ममाऽपि पुण्यविभागोऽस्तु। अनुमतं सङ्घन ततस्तेन मलयाचलात् व्योम्ना श्रीखण्डागरुकाष्ठान्यानीय तदङ्गसंस्कारश्चक्रे । ।। इति प्रभावनायां श्रीजीवदेवसूरिचरित्रम् ।। अथ वीराचार्यः - ।। अथ श्रीवीराचार्यसम्बन्धः ।। श्रीचन्द्रगच्छेऽवान्तरः खण्डिलाख्यया गच्छा तत्र श्रीभावदेवसूरिरासीत् । तत्पट्टे श्रीविजयसिंहसूरयः, तत्पट्टे श्रीवीरसूरयो राज्ञः श्रीसिद्धराजस्य मित्रम् । अन्यदा सभायां राजा नर्मणाह गुरुम्- 'तेजो वो भूपाश्रयाबहुः ।' सूरिः प्राह :- ‘स्वस्वभाग्यैः सर्वेषां प्रतिष्ठा स्यात्, नान्यत: ।' राजाह- 'मत्सभा मुक्त्वा

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468