________________
पभावणा तित्थे
mmmmmmmmmmmmmmmmmmmmmmmmmmmmm ३५५
अस्तु च प्रथमो बण्ट: श्रीवीरव्रतिनां तथा । सदाऽन्तरं न कर्त्तव्यं भूमिदेवैरतः परम् ।।
प्रतिष्ठितो नवाचार्य: सौवर्णमुपवीतकम् । परिधाप्याभिषेक्तव्यो ब्राह्मणैर्ब्रह्ममन्दिरे ।।' इत्यङ्गीकृते तैर्लल्लो गुरुपादयोर्मोलिं निवेश्याह - 'प्रभो ! महास्थानं समुद्धर ।'
श्रीजीवदेवसूरिश्च प्राहोपशमवर्मित: । कालत्रयेऽपि नास्माकं रोष-तोषौ जनद्विषौ ।।
प्रत्युहव्यूहघातिन्यः परं शासनदेवताः । इदानीमपि ता एव भलिष्यन्ति मम स्मृतौ ।। ___ इत्युक्त्वा सूरयो ध्यानेऽऽसीना: । अन्तर्मुहूर्तेन गौर्ब्रह्मवेश्मत उत्थाय बहिर्निर्गत्य ब्राह्यप्रदेशभूमौ निरालम्बाऽपतत् । गुरव आस्थानमाजग्मुः, वेदोदिताभिराशीभिर्विप्रैश्चक्रे जयध्वनिः । जिनधर्मः स्फातिमान्। श्रीसङ्घमुखानि सप्रकाशानि, पूज्या अन्यत्र विजहुः । कालं ज्ञात्वा योग्यं शिष्यं पट्टे न्यवीविशन् ।
गच्छप्रवर्तकस्याथादेशं राहस्यिकं ददुः । योगी प्रतिहतोऽस्माभिर्यः पुरा सिद्ध एव सः ।। अनेकसिद्धिसंयुक्त एकखण्डकपालवान् । अस्माकं निधनं ज्ञात्वा स चागन्तात्र निश्चितम् ।।
अप्यस्माकं कपालं चेत् सैष प्राप्स्यत्यधर्मधीः । शासनस्योपसर्गास्तद् विधास्यति तथाविधान् ।। तत: स्नेहं परित्यज्य निर्जीवेऽस्मत्कलेवरे कपालं चूर्णनीयम् । इहार्थे मामकीनाज्ञा, यत इत्थं शासनरक्षा भाविनी । इति नवसूरेः शिक्षा प्रदाय सम्यगाराध्य वैमानिकसुरेषूत्पद्यन्त । ततो लब्धलक्षः सदण्डमुद्दण्डं परिगृह्य कपालं तथा चूर्णयामास यथाऽऽकारोऽपि नेक्ष्यते । सङ्घ शोकाद्वैतं महत्युत्सवे गुरुशिबिकां गीतार्था वहन्ति । अस्मिन्नवसरे डमरुकध्वानभैरवो योगी तत्राययौ । पुरुषोऽयं कोऽतीत इत्यपृच्छच्च लोकम्, तत्रैको विप्रोऽश्रूणि मुञ्चन्-'महाभाग ! महास्थानधरोद्धारवराहः श्रीजीवदेवसूरिर्दिवमीयिवान्,' इत्याह । इदं श्रुत्वा कूटशोकः स वक्षोध्नन् पूत्कारमुच्चैः कृत्वा भृशमरोदत् । एकदा भो ! मदीशस्य मुखं दर्शयत, अन्यथा स्वशिरोधातं कृत्वा प्राणान्त्यक्ष्यामि । प्रवर्तकेन शिबिकां भुवि मोचिता, तन्मुखमुद्घाटितम्, तच्चूर्णितं दृष्ट्वा हस्तौ घृष्टवान् । एकखण्डं कपालं श्रीविक्रमादित्यभूपते: ममाचार्यस्यास्य स्यात्पुण्यपुरुषलक्षणम्। करे चेन्ममेदमचटिष्यत् तदा मन्मनोरथाः सिद्धिमयास्यन् । किं कुर्वे, अभाग्यरिदृशं न प्राप्यते । जीवता च मृतेनाप्यनेनाहं घृष्ट एव मित्रेण । परं तथापि लोकोऽस्य संस्कारे मां दिशत्वसौ ममाऽपि पुण्यविभागोऽस्तु। अनुमतं सङ्घन ततस्तेन मलयाचलात् व्योम्ना श्रीखण्डागरुकाष्ठान्यानीय तदङ्गसंस्कारश्चक्रे ।
।। इति प्रभावनायां श्रीजीवदेवसूरिचरित्रम् ।। अथ वीराचार्यः -
।। अथ श्रीवीराचार्यसम्बन्धः ।। श्रीचन्द्रगच्छेऽवान्तरः खण्डिलाख्यया गच्छा तत्र श्रीभावदेवसूरिरासीत् । तत्पट्टे श्रीविजयसिंहसूरयः, तत्पट्टे श्रीवीरसूरयो राज्ञः श्रीसिद्धराजस्य मित्रम् । अन्यदा सभायां राजा नर्मणाह गुरुम्- 'तेजो वो भूपाश्रयाबहुः ।' सूरिः प्राह :- ‘स्वस्वभाग्यैः सर्वेषां प्रतिष्ठा स्यात्, नान्यत: ।' राजाह- 'मत्सभा मुक्त्वा