________________
३५६
मन्नह जिणाण आणं' स्वाध्यायः
भवतां विदेशगमने भिक्षाचरत्वमात्रमेव ननु ।' सूरिराह- 'राजन् इयन्ति दिनानि भवत्प्रेमतः सन्दानमिवासीत्। आपृष्टोऽसि गच्छामो वयम् ।' नृपः प्राह- 'स्वपुरान्न दास्यामि भवतो गन्तुम् ।' सूरिः प्राह - 'केन वयं यान्तो निषिध्यामहे ?' इत्युक्त्वा स्वाश्रयं ययौ सूरिः । राजा नगरद्वाराणि सर्वाण्यपि नरै रुरोध । इतश्च गुरवः सान्ध्यक्रियां कृत्वा ध्यानेन तस्थुः । प्राणनिरोधाद्विद्याबलाच्च ते गगनाध्वना पल्लीनाम्नीं पुरीं प्रापुः । प्रातविलोक्यतेऽदृष्टे च राजा दध्यौ, 'किं मित्रं गत एवायं सदा शिथिलमोहः, परमीदृक् कलानिधिः पुनः कथं प्राप्यः ? मन्दपुण्योऽहमिति । इतश्च ततः पल्लीवासिविप्रैः पत्तने राजा जयसिंहो व्यज्ञपि । अमुके तिथी, नक्षत्रे, वारे दिने च श्रीवीरसूरयोऽत्र प्राप्ताः । राजा दध्यौ, नर्मेव मे विकृतम् । तद्रात्रावेवासौ व्योममार्गेण पल्यां ययौ । उत्कण्ठितेन राज्ञा तदाकरणार्थं प्रहिताः प्रधानाः पल्लीं प्रापुः । प्रकाशितं तदग्रे ते नृपस्य तद्वियोगदुःखादि । उदासीनस्था गुरवः प्राहुः - 'स्वविद्याबलं ज्ञातुं वयं प्रागपि विजिहीर्षवः, स्थानस्थैर्न ज्ञायते तत् । राजा उच्चावचं तु वच: सहकारिकारणम् । ततो देशेषु विहृत्य भवत्पुरे आगमिष्यामश्चेत्पुनः, प्रधानैर्महाग्रहकरणेन प्रतिपन्नं गुरुभिः पत्तनागमनम् ।'
महाबौद्धपुरे बौद्धान्वादे जित्वा बहूनथ । गोपालगिरिमागच्छन् राज्ञा तत्रापि पूजिताः । । परप्रवादिनस्तैश्च, जितास्तेषां च भूपतिः । छत्रचामरयुग्मादि- चिह्नान्यदान्मुदा ।।
राज्ञा कारितास्ते, गोपगिरिभूपार्पितं छत्राद्यप्रेषयन् सत्वरम्, स्वयं तु शनैर्नागपुरमार्गेण पत्तनासन्नचारूपग्रामे प्रापुः । तावन्तं पन्थानं यावद् भूपकृतप्रवेशमहा गुरवः पत्तनं प्रापुः । अथात्र वादिसिंहाख्य: सांख्यवादी समागतः । पत्रावलम्बने तस्याऽयं श्लोकः -
“उद्धृत्त्य बाहू किल रारटीति; यस्यास्ति शक्तिः स च तावदैतु ।
मयि स्थिते वादिनि वादिसिंहे; नैवाक्षरं वेत्ति महेश्वरोऽपि ।। "
श्रीकर्णबालमित्रं श्रीवीराचार्यकलागुरुर्गोविन्दाचार्योऽस्ति, तत्पार्श्वे प्रच्छन्नवेषेण राज्ञा आगत्य पृष्टम्भगवन् ! वादिसिंहेन सह वादः करिष्यते ? गोविन्दाचार्यैरुक्तम्-वीरस्तं प्रातर्जेष्यति सभायाम् । प्रातर्भूपे वादिसिंह आकारितः प्राह निःस्पृहत्वदम्भेन वयं कस्मात् तत्रागच्छामो निःसङ्गाः ?, राजा चेत् कौतुकी तदा पादचारेणात्रागमिष्यति । राज्ञा कौतुकात् तथैव कृतम् । सांख्यपार्श्वे गोविन्दाचार्य: सभ्यतयाऽऽकारितः, तत्र प्राप, अपरेऽपि वीराचार्यप्रमुखा विदुराः । राजाऽऽह - ' को वक्ताऽत्र ?' श्रीगोविन्दाचार्यः प्राह‘श्रीवीराचार्यः ।' सांख्यः प्राह- 'एष दुग्धगन्धमुखो मया सह किं वदिष्यति ? ।' राजाऽऽह - 'त्वन्मदधत्तूरविभ्रमो दुग्धादेव विलेष्यते । '
इति श्रुत्वा स उर्ध्वहस्तस्थशिराः सुप्त एवोपन्यासमवहीलया चक्रे । तदनु वीरः प्राह-गद्यात् पद्याद् वा वच्मि ?, छन्दाऽलङ्कारावपि कथय । सांख्यः प्राह- 'भो बाल ! गौर्जराडम्बरो मत्पुरो न क्रियते । चेत् ते शक्तिरस्येव तदा मत्तमयूरच्छन्दसा निह्नवालङ्कारेण च वद ।' वीरः - 'गिरां देव्यास्त्वयेव मयाऽऽशातना न क्रियते' इत्युक्त्वा ऊर्ध्वभूय सर्वानुवादपूर्वं प्रत्युपन्यासं चक्रे, सांख्योऽपि तदासनस्थोऽभूत् । श्रीवीरे मत्तमयूरच्छन्दसा
I