________________
पभावणा तित्थे rrrrrrror
mommmmm ३५७
निह्नवालङ्कारेण च तं कृत्वा विरते सर्वानुवादकरणाशक्तः सांख्यः प्राह-'नाहं सर्वानुवादोपन्यासे समर्थः ।' ततो राजा बाहौ विधृत्य भूतलेऽमुं पातयामास । वक्तुं चेन्न शक्तस्तदा आसनस्थः कथं ब्रूषे ? तदा कविराजश्रीश्रीपाल: प्राह -
"गुणैरुत्तुङ्गतां याति, नोच्चैरासनसंस्थितः ।
प्रासादशिखरस्थोऽपि, काक: किं गरुडायते ? ।।" विडम्ब्यमान: स वीराचार्येण न्यवारि । राज्ञा सांख्यो देशात् कर्षितः, श्रीवीराचार्यस्य तु जयपत्रमर्पितम्। अन्यदा जययात्रायां चतुरङ्गचमूवृते गूर्जराधीशे चलिते श्रीवीराचार्यचैत्यपुरः सञ्चरिष्णौ भूपं दृष्ट्वा कश्चित् कविः समस्यापदमाह, तदुद्दिश्य वीराचार्य दृष्टिं राजा चिक्षेप । तेन लीलयैवापूरि । तथाहि -
"कालिन्दि ! ब्रूहि कुम्भोद्भवजलधिरहं नाम गृह्णासि कस्मात् ?, शत्रोमें नर्मदाऽहं त्वमपि मम सपन्त्याश्च गृह्णसि नाम । मालिन्यं तर्हि कस्मादविरलविगलत्कज्जलैर्मालवीनाम्,
बाष्पाम्भोभिः किमासां समजनि चलितो गूर्जराणामधीशः ।।" नृपः प्राह - 'अनया तव सिद्धवाचा मालवं ग्रहीष्याम्येव ।'
“त्वया बलानकस्थेन, प्रोक्तो मे शत्रुनिग्रहः ।
विजयस्य पताकेयं, ततस्तत्रास्तु सा दृढम् ।।" ततः सा तत्र तैर्बन्धिता । कमलकीर्तिदिगम्बरवादी अन्यदा श्रीसिद्धराजसभामागत्य वादार्थं वीराचार्यमाह्वास्त। वीरोऽपि पञ्चवर्षीयबाला सहादाय तत्र प्राप्तः। अवज्ञया वीक्ष्य तं वादिनमासने निविष्टः । वादी प्राह'राजन्! तव सभा विदुषामयोग्या बालिकाविप्लुता ।' राजाऽऽह-स्वप्रमाणेन क्रीडत्येष बुध इत्युक्त्वा वीरो वीक्षितः प्राह-समानवयसोर्वाद इति ध्यात्वा बालैषा नग्नाऽऽनीता, एषोऽपि नग्नत्वाद् दृश्यते बाल इव, ततः स्त्रीमुक्तिनिषेधकुपितयाऽनयैव वादेऽसौ विजेष्यते इति । ततो हस्तं तन्मौलौ प्रदाय वीर: प्रोचे-बाले ! वदानेन सह, स्थापय स्त्रीमुक्तिम् । ततः सा गङ्गापुरमिव दुरुत्तरं व्यक्तमुपन्यास मेघगम्भीरगिरा स्त्रीमुक्तिस्थापकं चक्रे । तं श्रुत्वा वादी अनेडमूक एव जातः । जातो जिनधर्मे जयजयारवः । राजाऽऽह-'यस्य हस्तस्पर्शन यत्र तत्र सङ्क्रान्ता वाग्देवी भाषते स वीरार्यो जगत्यजय्य एवेति ।'
।। इति वीराचार्यसम्बन्धः ।। श्राद्धानां कृत्यमेतत्, न केवलं श्राद्धानां किन्तु किञ्चिद् किञ्चिद् धनीनामपि कृत्यम् ।
इइ पभावणा तित्थे] ।। इति प्रबोधदीपिकायां पञ्चमः प्रस्तावः ।।