________________
...'मन्नह जिणाण आणं' स्वाध्यायः
संतिकरस्तवनिर्मितविनिवारित-निखिलदेशमारिभयाः । श्रीमुनिसुन्दरगुरवः प्रभावका: शासनोद्योताः ।।१।। तपगणसुरगिरिशिखरे सुरपादपसंनिभत्वमभिदधतः । श्रीरत्नशेखरगुरुप्रवराः शिष्ये हितार्थकराः ।।२।। अभवन् भृगुपुरविदितप्रभावविभवाः कलिन्दिकाकलिताः । नानागमार्थगर्भितशास्त्रैरिहमूर्तिमन्तोऽपि ।।३।। युग्मम् ।। तत्पट्टालङ्कृतिकृतिनिपुणाः श्रीलक्ष्मीसागरगुरवः । तैयस्ताः सौवपदे जाता: श्रीसुमतिसाधुवराः ।। सम्प्रति तेषां पदे वपुः प्रसपत्प्रभावः भृशपटवः । नन्दन्तु चिरं सङ्घ गणपाः श्रीहेमविमलाख्याः ।। श्रीरत्नशेखरगुरूत्तमशिष्यमुख्या आबाल्यकालगुणगौरवलब्धवर्णाः । श्रीसूरिराज-जिनहंसमुनीशहंसास्तेषां विनेय-परमाणुरिमां लिलेख ।।
इति मन्नह जिणाण आणं इति कुलकस्य वृत्तिर्नटीपद्रनगरे तपागच्छाधिराज-श्रीश्रीश्रीहेमविमलसूरि-विजयराज्ये पोषमासे शुक्लपक्षे प्रतिपदिने बुधे सकलानूचानशिरोवतंसस्वयशोनिर्जितराजहंस-श्रीश्रीश्री-जिनहंससूरिशिष्य-भूजिष्येण [सुशिष्येण] पं. राजमाणिक्यगणिना स्व-परोपकारविनोदाय सादरं लिखिता।।
। श्रीरस्तु ।। ।। कल्याणमस्तु ।। ।। शुभं भवतु ।। स्वस्ति संवत् एकसप्ततिः अधिकः पञ्चदशशत १५७१ वर्षे वैशाखमासे कृष्णपक्षे तृतीया ३ बुधे । भट्टमेदपाटज्ञातीयेन नटपद्रवास्तव्य-जोसीकडूआ-लिखितम् ।। छ ।। शुभमस्तु ।। ।। छ ।। ।। श्रीरस्तु ।। ।। कल्याणमस्तु।।
संवत् १६३८ वर्षे श्रीखरतरगच्छे श्रीपत्तननगरे श्रीजिनचन्द्रसूरिभिः पाठनार्थः ।।