________________
३५४ xmmmmmmmmmm
rammar- 'मन्नह जिणाण आणं' स्वाध्यायः
द्रव्याभावोद्भवा चिन्ता कार्यालल्ल ! नहि त्वया । द्रव्यं ते तदधिष्ठात्र्यः पूरयिष्यन्ति पुष्कलम् ।। उत्कीलने समारब्धे निशि शुश्रुविरे स्वराः । नोत्कील्यमित्यवज्ञाते निपतन्त्यत्र लोष्टकाः ।।
पुनः पूज्यानां ज्ञापितम्, ध्याने कृते साक्षाद्देवी आगता । आह च - कन्याकुब्जराज्ञो दुहिता निजे सुखादिकादेशे गुर्जरे तिष्ठन्ती।
म्लेच्छभङ्गभयादत्र कुपेऽहं न्यपतं तदा । अभूवं भूम्यधिष्ठात्री मृत्वा स्वं चास्ति मे बहु ।।
ततः स्वाङ्गास्थिशल्यानि नानुमन्ये विकर्षितुम् । ममाननुमतौ कोऽपि किंचित् कर्तुं नहि प्रभुः ।। ततो गुरुरेनामन्वनयत् सातङ्गी: सुधाभि: शाताऽभूत् ।
अवोचद् यदि मामत्राधिष्ठात्री कुरुताधुना । तद्र्व्यसहिताभूमिधर्मस्थानाय गृह्यताम् ।।
गुरुभिः प्रतिपन्ने च चैत्ये निवृत्तिते वरे । ते देवकुलिकां तस्या योग्यां पृथगचीकरन् ।। भवनदेवीति आख्या च कृता । अथ जिनधर्मरक्तं लल्लं ज्ञात्वा विप्रा जैनेषु द्वेषं चक्रुः । ततस्ते गोचरचर्यादौ गच्छतां साधूनामुद्वेगं कुर्वन्ति । साधुभिस्तत्स्वरूपे प्रोक्ते गुरुः प्राह- 'क्षमावशातुपसर्गा विलीयन्ते, इदं नस्तत्त्वम् ।' अन्यदा विप्रा आलोच्य काञ्चिन्मरणोन्मुखीं सुरभिं चरणेषूत्पाट्योत्पाट्य श्रीवीरचैत्यान्तः प्रावेशयन् । निशिगतप्राणां तां मत्वा ते बहिस्था: प्राहु:-'अत्र जैनमहिमा कोऽपि विलोक्य: जैनानां विडम्बना वा।' ब्राह्म मुहूर्ते यतयोऽङ्गणे प्राप्तास्तां परासुं ददृशुः । तैर्गुरुणां निवेदिते तत्स्वरूपे गुरवोऽक्षुभ्यन्तोऽङ्गरक्षायै साधून मुक्त्वा ध्यानं भेजुः । अन्तर्मुहूर्तेन सा धेनुः स्वयमुत्थाय चैत्याबहिर्निगत्य बह्मभवनोन्मुखं गच्छन्ती विप्राणां विस्मयाद्वैतं कुर्वन्ती दृष्टा । यावत्पूजक: प्रातभरमुद्घाटयति तावत्शीघ्रं सुरभिर्बह्ममन्दिरेऽऽविशत्, बहिःकर्षन्तं शृंगयुगलेन प्रपात्य गर्भागारे प्रविश्य बह्मपुरोऽपतत् । गुरवो ध्यानं मुमुचुः । पूजको झल्लरीनादान्महास्थानममेलयत् । आगता विप्रादयः, हाहाकारः सर्वेषां मतिमूढताश्चर्यगुरुभयानि । ही ही मतिभ्रमो वा स्वप्नो वायम् । यद् गौम॒ताऽत्रैवागता च । वायो: कीर्तिर्वायुनैव गता । हा उच्चल्यते इतः । अन्ये प्राहुः - 'तव डिम्भैविराधिता जैनर्षयः ।' अन्ये प्राहुः - 'न मम किन्तु तवे'त्यादि मिथः कलहाः, निपुणाः प्राहुः - 'चैत्यस्था गुरवः शरणं प्रपद्यन्ते तदा कोऽपि शुभसम्भवः । प्रणामं विना प्राकृतोऽपि कोऽपि न प्रशन्नो भवति, किममानुषसामर्थ्य: ।' एवंमेकमतीभूय श्रीवीरमन्दिरे प्राप्ताः । हस्तौ शीर्षे योजयित्वा बहुभक्तिविनयपूर्वकं श्रीगुरुन् विज्ञपयामासुः । इत्युक्तेऽपि गुरौ तुष्णीके लल्लो जीतकाशी प्राह - 'जैनेषु द्विष्टैर्विशिष्य तु मयि भवद्भिरसूययापराधा भृशं क्रियन्ते, तथापि यदि यूयं किञ्चिद्दण्डं मर्यादारूपं प्रतिपद्यध्वे तदाऽहं पूज्येभ्यः किञ्चिद्विज्ञपयामि ।' विप्राः प्राहुः - ‘युक्तमवोचः।'
'स्वरुच्या साम्प्रतं जैनधर्मे सततमुत्सवान् । कुर्वतां धार्मिकाणां न कोऽपि विघ्नान् करिष्यति ।।
१०. ....द्भिसूरयाय...' हस्त० ।