Book Title: Mannaha Jinan Aanam Swadhyay
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 405
________________ ३४६ 4 जइ सोऽवि सव्वविरईकयानुराओ विसुद्धमइकाओ । छिन्नसयणाणुराओ विसयविसाओ विरतो अ ।। 5. 'मन्नह जिणाण आणं' स्वाध्यायः संथारयपव्वज्जं 'पव्वज्जइ सोऽवि निअम निरवज्जं । सव्वविरइप्पहाणं सामाइअचरित्तमारुहइ ।। " [भक्तपरिज्ञा-२९-३३] यथा स्वज्ञानावरणीयकर्मनिर्जरार्थिना पश्चिममण्डलीकश्री आभूसङ्घपतिना एककोटिटङ्कव्ययेन सरस्वतीभाण्डागारे सर्वागमप्रतिरेका सौवर्णाक्षरा, द्वितीया सर्ववर्तमानग्रन्थानां मष्यक्षरमयी प्रतिर्लेखिता, तथा ३६० आत्मसदृशाः श्राद्धाः कृताः, तेनैव च भूनेतामहांकूग्रामयोः अन्ये सामान्याः कोरणीरहिताः ८४ प्रासादा निष्पद्यन्ते इत्येतावद्द्रव्यव्ययौ द्वौ प्रासादौ कारितौ । संस्तारकदीक्षाक्षणे सप्तकोटीद्रव्यव्ययः सप्तक्षेत्र्यां चक्रे तेन । यथा वा सा० पेथडः । तत्स्वरूपं चेदम् आडदेशे नान्दरीनगरे नरसिंहो राजा, नानाक: प्रधानः, नागलदेवेश्या इत्यादि द्वात्रिंशन्नकाराः ख्याताः । तत्र सुवर्णसिद्धिमान् प्रवाहेन सौवर्णकदानी कणयगिरिबिरुदो देदाको व्यवहारी । तत्सुतः स्वेच्छया लीलया वाणिज्याद्यनभिज्ञः पेथडाभिधो जातः । स स्वल्पद्रव्यः पितरि मृते दुर्गादिशुभविहागे मण्डपे प्राप्तः । लवणादि वाणिज्येन 'लूणिउ पेथड : ' इति ख्यातः । क्रमेण जयसिंहराज्ञो मन्त्री जातः । तेन भृगुकच्छे भारतीकोशोऽलिखि ताम्रपूठांरीरीकीलकदुकूलवेष्टनकपट्टसूत्रमयदवरकाद्यलङ्कृतबाहुदण्डपुस्तकरूपः । - श्रीपत्तनगरे आभडेन नानापुस्तकानि लेखितानि । चतुरशीतिवर्षायुः प्रान्ते धर्मविहिकावाचने भीमप्रियः ९८ [अष्टनवति-] लक्षा व्ययिताः श्रुत्वा च साधुर्विषण्णः प्राह - 'हा ! कृपणेन मया एककोट्यपि न व्ययिता । तदा तस्यासपालादिपुत्रैरुक्तम्- कोटी तदा पूर्णा यद्यष्टोत्तरेति, तैर्दशलक्षास्तदैव सप्तक्षेत्र्यां व्ययिताः, एवमष्टोत्तरकोटी जाता । अष्टौ पश्चाद्धर्मव्यये मानिताः सोऽनशनात्स्वर्गतः । सम्प्रत्यपि अनेकैः श्राद्धजनैर्भाण्डाकाराः सर्वशास्त्रमया लेखिताः सन्ति । श्रीपत्तने व्य० खीमसीसहसाभ्याम्, पा० पासवीररामादेवादिभिः । अहम्मदे मंसुन्द्रगदाभ्याम्, वत्सेरादेवाजीवाभ्याम् । पुरा श्रूयते एकदा श्रीहेमसूरिर्जिनशासनोन्नतिपरायणो राज्ञः 4. यदि सोऽपि सर्वविरतिकृतानुरागो विशुद्धमतिकायः । छिन्नस्वजनानुरागो विषयविषाद्विरक्तश्च ।। 5. संस्तारकप्रव्रज्यां प्रव्रजति सोऽपि नियमान्निरवद्याम् । सर्वविरतिप्रधानं सामायिकचारित्रमारोहति ।।

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468