________________
३४६
4
जइ सोऽवि सव्वविरईकयानुराओ विसुद्धमइकाओ । छिन्नसयणाणुराओ विसयविसाओ विरतो अ ।।
5.
'मन्नह जिणाण आणं' स्वाध्यायः
संथारयपव्वज्जं 'पव्वज्जइ सोऽवि निअम निरवज्जं । सव्वविरइप्पहाणं सामाइअचरित्तमारुहइ ।। "
[भक्तपरिज्ञा-२९-३३]
यथा स्वज्ञानावरणीयकर्मनिर्जरार्थिना पश्चिममण्डलीकश्री आभूसङ्घपतिना एककोटिटङ्कव्ययेन सरस्वतीभाण्डागारे सर्वागमप्रतिरेका सौवर्णाक्षरा, द्वितीया सर्ववर्तमानग्रन्थानां मष्यक्षरमयी प्रतिर्लेखिता, तथा ३६० आत्मसदृशाः श्राद्धाः कृताः, तेनैव च भूनेतामहांकूग्रामयोः अन्ये सामान्याः कोरणीरहिताः ८४ प्रासादा निष्पद्यन्ते इत्येतावद्द्रव्यव्ययौ द्वौ प्रासादौ कारितौ । संस्तारकदीक्षाक्षणे सप्तकोटीद्रव्यव्ययः सप्तक्षेत्र्यां चक्रे तेन ।
यथा वा सा० पेथडः । तत्स्वरूपं चेदम्
आडदेशे नान्दरीनगरे नरसिंहो राजा, नानाक: प्रधानः, नागलदेवेश्या इत्यादि द्वात्रिंशन्नकाराः ख्याताः । तत्र सुवर्णसिद्धिमान् प्रवाहेन सौवर्णकदानी कणयगिरिबिरुदो देदाको व्यवहारी । तत्सुतः स्वेच्छया लीलया वाणिज्याद्यनभिज्ञः पेथडाभिधो जातः । स स्वल्पद्रव्यः पितरि मृते दुर्गादिशुभविहागे मण्डपे प्राप्तः । लवणादि वाणिज्येन 'लूणिउ पेथड : ' इति ख्यातः । क्रमेण जयसिंहराज्ञो मन्त्री जातः । तेन भृगुकच्छे भारतीकोशोऽलिखि ताम्रपूठांरीरीकीलकदुकूलवेष्टनकपट्टसूत्रमयदवरकाद्यलङ्कृतबाहुदण्डपुस्तकरूपः ।
-
श्रीपत्तनगरे आभडेन नानापुस्तकानि लेखितानि । चतुरशीतिवर्षायुः प्रान्ते धर्मविहिकावाचने भीमप्रियः ९८ [अष्टनवति-] लक्षा व्ययिताः श्रुत्वा च साधुर्विषण्णः प्राह - 'हा ! कृपणेन मया एककोट्यपि न व्ययिता । तदा तस्यासपालादिपुत्रैरुक्तम्- कोटी तदा पूर्णा यद्यष्टोत्तरेति, तैर्दशलक्षास्तदैव सप्तक्षेत्र्यां व्ययिताः, एवमष्टोत्तरकोटी जाता । अष्टौ पश्चाद्धर्मव्यये मानिताः सोऽनशनात्स्वर्गतः ।
सम्प्रत्यपि अनेकैः श्राद्धजनैर्भाण्डाकाराः सर्वशास्त्रमया लेखिताः सन्ति । श्रीपत्तने व्य० खीमसीसहसाभ्याम्, पा० पासवीररामादेवादिभिः । अहम्मदे मंसुन्द्रगदाभ्याम्, वत्सेरादेवाजीवाभ्याम् । पुरा श्रूयते एकदा श्रीहेमसूरिर्जिनशासनोन्नतिपरायणो राज्ञः
4. यदि सोऽपि सर्वविरतिकृतानुरागो विशुद्धमतिकायः । छिन्नस्वजनानुरागो विषयविषाद्विरक्तश्च ।। 5. संस्तारकप्रव्रज्यां प्रव्रजति सोऽपि नियमान्निरवद्याम् । सर्वविरतिप्रधानं सामायिकचारित्रमारोहति ।।