________________
[पुत्थयलिहणं] [३५-पुस्तकलेखनम् ]
पुत्थयलिहणं । पुस्तकानां श्रीजिनागमानां लेखनम्, तत्र महालाभं ज्ञानावरणीयकर्मनिर्जरात्मकत्त्वाद्विज्ञाय यथाशक्तिः यतनीयं सर्वैः श्राद्धैः साधुभिश्च पठन-पाठन-शोधनभाण्डागारसारादिविधौ च । यतः
-
“लेखयन्ति नरा धन्याः, ये जैनागमपुस्तकान् ।
ते सर्ववाङ्मयं ज्ञात्वा, सिद्धिं यान्ति न संशयः ।।
न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडस्वभावम् ।
नैवाऽन्धतां बुद्धिविहीनतां च, ये लेखयन्त्यागमपुस्तकानि ।। "
श्रीजिनागमस्य लेखनं वाचनं स्वयं लिखनं पठनं पाठनं सारकरणादि च सर्वं सफलमेव ।
"ये लेखयन्ति जिनशासनपुस्तकानि व्याख्यानयन्ति च पठन्ति च पाठयन्ति । शृण्वन्ति रक्षणविधौ च समाद्रियन्ते, मर्त्यदेव शिवशर्म नरा लभन्ते ।। "
[सुक्तमुक्तावली-४२/२]
भक्तपरिज्ञायां श्राद्धकृत्ये
“अह हुज्ज देसविरओ सम्मत्तरओ रओ अ जिणवयणे । तस्स वि अणुव्वयाई आरोविज्जंति सुद्धाई ।। अनियाणोदारमणो हरिसवसविसकंचुयकरालो । पूएइ गुरुं संघं साहम्मिअमाइ भत्ती ।।
निअदव्वमपुव्वजिणिंदभवणजिनबिंबवरपइट्ठासु । विअरइ पसत्थपुत्थयसुतित्थतित्थयरपूआसु ।।
1. अथ भवेद्देशविरतः सम्यक्त्वरतो रतश्च जिनवचने । तस्याप्यनुव्रतान्यारोप्यन्ते शुद्धानि ।।
2. अनिदानोदारमना हर्षवशविसर्पद्रोमाञ्चकञ्चककरालः । पूजयति गुरुं सङ्घ साधर्मिकादि च भक्त्या ।।
3. निजद्रव्यमपूर्वजिनेन्द्रभवनजिनबिम्बवरप्रतिष्ठासु । वितरति प्रशस्तपुस्तकसुतीर्थतीर्थकरपूजासु ।।