________________
३४४ mmmmmmmm
~~~~~~~~~ 'मन्नह जिणाण आणं' स्वाध्यायः
यथा थारापद्रासन्ने कस्मिंश्चिद्ग्रामे कोऽपि धन्यभूत् । स चाभूरिति प्रसिद्धे सुते बालक एव विपन्नः । ततो जननी निर्धनतया तत्रानिर्वहमाणा तं स्वसुतमादाय बहुव्यवहारिप्रवरे थारापद्रे कस्याऽपि व्यवहारिणो गृहासन्ने स्थाने तेन प्रतिपन्नभगिनीभावात्तस्थौ। सुतश्च तद्गृहे पशुरक्षणप्रमुखं यथोचितकर्मादि करोति। परं रूपवान् वचनचातुर्य-लोकप्रियत्व-भाग्यवदृशादिगुणवांश्च शनैः पाणिग्रहणयोग्योऽभूत् । प्रतिपन्नमातुलप्रसिध्या च जने प्रसिद्धिमान् [अभूत् । ___ अन्यदा श्रीस्तम्भनतीर्थत: केनापि व्यवहारिणा बहुग्रामेषु विवाहमेलनाय भ्राम्यन्ता शकुनाभावादिनाऽसम्पद्यमानतत्प्रयोजना थारापद्रप्रवेशे कारिखडकनावसरे वैकालिकायोत्थापनावसरे कालर्युपरि त्रिकलशीकृताध्वमारोप्यागच्छामीति तेनैवाभूकेन व्याहते सुशब्दः शकुनोऽयमिति मनसिकृत्य तस्मिन्नेव गृहे गते समाजग्मुः । तन्मातुलेन कृतादरास्तत्रैव तस्थुः । तस्य शकुनस्याभिधायकं तमेव ज्ञात्वा तेनैव सह विवाहं मेलयामासुः । भोजिताश्च मातुलेन आभूजनन्याश्चामिलन् । तद्गृहं कर्तनाद्युपस्कारादिमन्निर्धनं प्रेक्ष्य खिन्ना अपि गम्भीरत्वेन किमपि नोचुर्विरुद्धम्, किन्तु टंकसहस्रादि विवाहाय विलोक्यते यद्ग्राह्यं विस्तरेण जनन्या यात्राद्युत्सवाश्च कार्याः इत्यादिशोभनमेव ते प्रोचुः । तावता ग्राममध्ये वार्ता विसृता । जनैरुक्तम्-'एवंविधे ग्रामे सत्यपि भवद्भिरेवं किं कृतम् ?' तावता तत्रत्यराज्ञाऽपि वार्ता श्रुता । आभूराकारितस्तद्भाग्यवृष्टेन राज्ञोक्तम्- 'चतुर्दिनी शुल्कं वर्षमध्ये मया तव मुक्तम् ।' आभूर्हष्टः । तावता तद्भाग्यात् खण्डादिबालदिरागता, तेन सम्मुखं गत्वा रूप्यमुद्रा सत्यकाराद्यर्पयित्वा गृहीता, अपरं च वस्त्वर्पिता । शुल्कं च राज्ञो न दत्तम्, इत्यादि युक्त्या टंकसहस्राण्यर्जितानि सविस्तरो विवाहमहो जज्ञे । शनैः शनैर्द्रव्यकोट्यो जाताः ।
यथा-लघुकाश्मीरे थारापद्रे श्रीश्रीमालीसङ्घवी-आभः पश्चिममण्डलीकबिरुदधारी प्राघूर्णकसार्मिकवात्सल्यभोजनदानं विना न भुङ्क्ते [सं०-आभूरित्यादिगुणवर्णनं कृतम्, ततः] तद्गुणश्रवणचमत्कृतेन तत्परीक्षार्थं प्रच्छन्नवृत्त्या पृथक् पृथक् वर्त्मना सङ्केतितदिने समकालं द्वात्रिंशत्सहस्रसाधर्मिकसङ्घन सार्द्ध श्रीझाञ्झणोऽविच्छिन्नप्रयाणैरश्ववारैर-ज्ञातागमनस्वरूप: समागतश्चतुर्दशीदिने सङ्घची-आभूप्रधाने गृहीतपौषधे निसीहीत्रिकुर्वाणो जिनालये देवान्नत्वा शालायां गुरून वन्दित्वातिष्ठन्। सं० आभूलघुभ्रात्रा जिनदासेन निमन्त्रितः दुग्धपादप्रक्षालनपूर्वमासनेषूपवेशितः, सं०-आभूनमस्कारं गुणन् गृहं समागतः । लघुभ्रात्रा पृष्टः, 'भ्रात: ! स्थालानि कीदृशानि कर्षयामि ?।' सङ्घपतिनोक्तम्-‘स्वर्णरूप्यमयान्येव ।' तदा पञ्च पञ्चशती पङ्क्त्तौ पङ्क्तौ स्वर्णरूप्यमयानि मण्डितानि । एवं याममध्ये सकलोऽपि श्रीसङ्घो भोजित: परिधापितश्च पञ्चवर्णपट्टदुकूलमटीभिः । तदनु सङ्घवी-झाझणः सङ्घवी-आभूपादयोर्लग्नः । मदीयोऽपराधः क्षन्तव्यः, किं सुवर्णेश्यामिका लगति ? त्वं भाग्यवान्, यस्येदृशमौदार्यमित्यादि सं०-आभूगुणोपबृंहणां कृत्वा मण्डपंप्राप ।
[इइ संघोवरि बहुमाणो] ७. काल्हरी-कल्हरी = तृणानां राशिः, घासनो ढगलो इति भाषायाम् । - संपा० ।