________________
सङ्घोवरि बहुमाणो mmmmmmmmmmmmmmmmmmmmm
mmm ३४३
अत्र श्रीवस्तुपालमन्त्रिसम्बन्धः । तथाहि -
नागपुरीयसा०- देल्हासुतः सा०-पूनडः श्रीमोजदीनसुरत्राणबीबी[प्रेमकला-]प्रतिपन्नबान्धवोऽश्वपतिगजपतिनरपतिमान्योऽस्ति, तेन श्रीशत्रुञ्जय प्रथमयात्रा सं० १२७३ वर्षे बिब्बेरपुरात् कृता, द्वितीया सुरत्राणादेशात् सं० १२८६ वर्षे नागपुरात् कर्तुमारब्धा, तत्र १८०० शकटानि, बहवो महीधराः, माण्डलिग्रामासन्ने यावदायातस्तावत्संमुखमागत्य तेजपालेन धवलक्कमानीतः श्रीसङ्घः, श्रीवस्तुपाल: संमुखमागात् । श्रीसङ्घधूली पवनानुकूल्यतो यां यां दिशमनुधावति तां तां गच्छति । सङ्घजनैरभाणि- मन्त्रीश ! इत इता रजः, इत इत: पादोऽवधार्यताम् । मन्त्रिणा चोक्तम्- इदं रज: पुण्यैः स्प्रष्टुं लभ्यते । अस्मिन् स्पृष्टे पापरजो दूरे नश्यति। यत: -
श्रीतीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु च भ्रमणतो न भवे भ्रमन्ति ।
द्रव्यव्ययादिह नराः स्थिरसम्पदः स्युः, पूज्या भवन्ति जगदीशमथार्चयन्तः ।। "मन्त्रिपूनडौ गाढालिङ्गनप्रियालापौ संवृत्ती, सरस्तीरे सङ्घः स्थितः ।
रात्रौ मन्त्रिणा कथापितं सा० पूनडाय-'प्रातीसचेनास्मदावासे भोक्तव्यम् ।' तथेत्यादृतम् । भोजनमण्डपे रसवती निष्पन्ना, प्रातरायाति नागपुरीयाः, सर्वेषां पादप्रक्षालनं तिलकं च वस्तुपालः स्वयमेव करोति स्म, एवं द्विप्रहरी लग्ना । मन्त्री तथैवानिर्विण्ण: । तदा तेजपालेन विज्ञप्तम्- देव ! अन्यैरपि "सङ्घभक्ति: कारयिष्ये यूयं भुध्वम्, तापो भावी, मन्त्री- मैवं वद, पुण्यैरयमवसरो लभ्यते । तदा गुरुभि: कथापितम्
जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । न हु तुंबम्मि विणढे अरया साहारया हुन्ति ।। तदनु मन्त्रिणैकं काव्यं गुरुभ्यः प्रहितम् - "अद्य मे फलवती पितुराशा मातुराशिषि शिखाऽङ्कुरिताऽद्य ।
यद्युगादिजिनयात्रिकलोकं पूजयाम्यहमशेषमखिन्नः ।।" एवं भोजयित्वा परिधाप्य च रञ्जितः श्रीसङ्घः ।
।। अथ साधर्मिक सङ्घबहुमाने आभूसम्बन्धः ।।
३. 'आद्यायात्रा' हस्त० । ४. 'सा. पूनडमन्त्रिणाः' हस्त० । ५. 'देवभक्तिः' हस्त० । ६. 'मन्त्रिणेर्दकाव्यं श्रीगुरूणां'
हस्त० । 1. येन कुलमायतं तं पुरुषमादरेण रक्षेत । न हु तुम्बे विनिष्टेऽऽरकाः साधारका भवन्ति ।।