________________
।। अथ पञ्चमगाथाव्याख्याने प्रबोधदीपिकायां पञ्चमः प्रस्तावः । अथ पञ्चमी गाथा
'संघोवरि बहुमाणो, पुत्थयलिहणं पभावणा तित्थे । 'सड्डाण किच्चमेअं, निच्चं सुगुरूवएसेणं ।।
[सङ्घोपरि बहुमानः, पुस्तकलेखनं प्रभावना तीर्थे । श्राद्धानां कृत्यमेतत्, नित्यं सुगुरूपदेशेन ।।]
[ सङ्घोवरि बहुमाणो ] [३४ -सङ्गोपरि बहुमान: ]
सङ्घः साधु-साध्वी-श्रावक-श्राविकारूपश्चतुर्विधः तस्योपरि बहुमानं हार्दभक्तिः, सा विधेया । सङ्घादन्यत्तत्किमपि वस्तु नास्ति यन्महदुच्यते । यतः
"उर्वी गुर्वी तदनु जलदः सागरः कुम्भजन्मा, व्योमायातौ रविहिमकरौ तौ च यस्यांहिपीठे |
स प्रौढ श्रीर्जिनपरिवृढः सोऽपि यस्य प्रणन्ता, स श्रीसङ्घत्रिभुवनगुरुः कस्य न स्याद् नमस्यः ? ।।”
१. विचारसत्तरीग्रन्थे चतुर्थगाथास्थाने 'संघोवरि बहुमाणो, पुत्थयलिहणंमि पभावणा तित्थे । नवखित्ते धणववणं, समाईयमुभयकालम्मि ।। इति पाठस्तथा अस्याः पञ्चमगाथायाः स्थाने 'परिग्गहमाणाभिग्गह, इक्कारसपडिम-भावणया । सव्वविरई - मणोरह, एमाइ सड्ढकिच्चाई ।। '
श्री महेन्द्रसूरिविरचितायां विचारसप्ततिकायाम् चतुर्थ-पञ्चमगाथास्थाने 'संघोवरि बहुमाणो, धम्मिअ-मित्ती पभावणा तित्थे । नवखित्ते धणववणं, पुत्थयलिहणं विसेसेण ।। " परि xx इक्कारससढपडिम- फासणया । सव्व xx किच्चाई ।।' इति पाठः ।
२. जिणसासांमि राओ, णिच्चं सुगुरूण विणयपरो ।।' इति सम्बोधप्रकरणे ।