________________
चरणपरिणामो
mmmmmmmm
mmmmmm ३४१
स्नानदोहदो जातः । जातः पुत्रः । स्वामिनो कार्तिकेय इति नाम । वीरश्रीश्च पुत्री । सा रोहीडकपुरस्य क्रौञ्चनृपाय दत्ता । कार्तिकेयश्चतुर्दशवर्षो जातः । अन्यदा वसन्तेऽन्यकुमाराणां मातामहशालेभ्य: प्राभृतागमं दृष्ट्वा मातरं पृष्ट्वा ज्ञातस्वरूपो वैराग्यात्प्रव्रजितोऽनुरागेण पित्रा धार्यमाण-शतशलाकश्वेत-च्छत्रोऽभूत् । सोऽन्यदा गतः किष्किन्धपर्वतम्, तत्र पाण्डूनकनगरे रात्रौ प्रतिमायां स्थितः मेघो वृष्ट: । जलं मुनिशरीरं प्रक्षाल्य महाद्रहे प्रविष्टं सर्वोषधं जातम् । तेण लोगो पहाओ । सव्ववाहीहिं मुञ्चइ । ततो दक्षिणापथे तत्तीर्थजातम्, अन्यदा मुनिः रोहीडकं गतः । क्रौञ्चनृपगृहे भिक्षार्थं प्रविष्टः । तत्र वीरश्रिया भगिन्या गवाक्षस्थया तं दृष्ट्वा भ्रातृस्नेहात्प्ररुन्नम् । राज्ञा रुदन्तीं दृष्ट्वाऽज्ञातपरमार्थेन क्रोधाद्गवाक्षस्थेनैव गृहानिर्गच्छन्मुनिः पृष्टौ शक्त्या हतः । तओ तक्खणामेव सोरिविज्जाए पुव्वसिद्धाए दक्षिणावहे महायरेणं मोरिअखंडिपव्वए नीओ । तत्थ सो समाहिणा मओ दिवंगओ । तस्स पएसस्स सामिगिहमिति संज्ञा जाता । तयाए इच्छेव विज्जाए रओहरणं भाउआओ आणीय पाडियं । वीरश्रीरपि हा भ्रातः ! ते भगिनीपतिना भव्यमातिथेयं कृतमित्यादि व्यलपत् । ततो ज्ञातस्वरूप: क्रौञ्चनृपो हा ! धिग्मामविमृश्यकारिणमित्यादि स्वं निन्दन् प्रव्रजितः । वीरश्रीरपि तपः कृत्वा त्रिवर्षेरुत्तमार्थमाराध्य दिवंगता । क्रौञ्चनृपोऽपि ।
।। इति चरणपरिणामे स्कन्दमुनिसम्बन्धः ।।
[इइ चरणपरिणामो] ।। इति प्रबोधदीपिकायां चतुर्थप्रस्तावः ।।
९. अत्र 'तयाएई चेव विज्जएकारोहणं भाउआई आय उप्पाइआ ।' पाठो दृश्यते परं भ्रष्टोऽयं पाठः सम्बन्धेन
शुद्धीकृतः । सम्पा० । 13. तेन लोकः स्नातः । सर्वव्याधिभिः मुच्यते । 14. ततस्तत्क्षणामेव सौर्यविद्यया पूर्वसिद्ध्या दक्षिणपथे महादरेण मौर्यखण्डपर्वते नीतः । तत्र स समाधिना
मृतः, दिवंगतः । तस्य प्रदेशस्य स्वामिगृहमिति संज्ञा जाता । तदा एतया चैव विद्यया रजोहरणं भ्रात्रोः आनीय पातितम् ।