Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 117
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री हेमचन्द्राचार्यग्रन्थावली. ( ५ ) समाहरन्सारमशेषमुर्व्याः करैः प्रकामं कठिनायमानैः । सतां समुल्लासहर प्रवृतिः कस्यापि नानन्दकरो बभूव ॥ ६ ॥ स जातमात्रः सविता पयोधेः सकाशमुन्मुच्य समग्रगर्वः । सर्वत्र सोऽहं सवितेति नाम पुनः समुद्घोषयति स्म पूषा ॥ ७॥ उन्मेषदः पङ्कजमण्डलानामुन्मार्गवर्त्ती स्वयमुग्रतेजाः । सपद्मिनीभिः सह पुष्पिणीभिः सदा विज सरसाभिरर्कः॥८॥ संत्यज्य सर्वाभ्युदयस्य हेतुं प्राचीं दिशं प्राक्तनधर्मपत्नीम् । स पश्चिमामेव समाजगाम पतिष्यतां पापरता हि वृत्तिः ॥ ९ ॥ स वारुणीसङ्गवशेन सद्यस्त्यक्ताम्वरस्थैर्य विना कृतश्रीः । मदेन मन्दीभवदात्मतेजाः पाश्चात्यभात्रं पतितः प्रपेदे ॥ १० ॥ पुत्रस्य पूष्णः पुनरेष वृत्तिमेतादशीं वारिधिरीक्षमाणः । अमन्यतात्मानमपत्यहीनं वन्ध्यत्वमेवालमसाधुपुत्रात् ॥११॥ ततः कुलोत्तारकमेकमन्यं लब्धं कुमारं रमणो नदीनाम् । स्वमध्यभाजं सुचिरं तपोभिः मुरारिमाराधयति स्म शङ्के ॥ १२॥ ततश्चिरात्सत्त्वनिधेरमुष्य पुराकृतैः पुण्यतपोविशेषैः । चन्द्रस्तनूजः सकलोत्तरश्रीरूम्र्म्याभिधायामुदभूद् गृहिण्याम् ॥ १३॥ तं जातमात्रं तनयं पयोधिः विलोक्य शश्वद्विमलप्रकाशम् । उदूहृद्धिः स्वयमुत्सवेन वभार विश्वाधिक महर्षम् ॥ १४ ॥ तमङ्कमारोप्य तरङ्गहस्तैः पुष्यत्पयोबुद्बुदरोमहर्षः । स लालयामास तदोपगृह्य सरित्पतिः सान्द्रतरप्रमोदः || १५॥ स जातसंस्कारविधिः क्रमेण प्राच्या दिशा प्रेमजुषेव धात्र्या । अवतादाय पितुः सकाशात्कुमुद्वतीनामधिपः कुमारः ॥ १६ ॥ समेधयन्ती चरमाथ सन्ध्या धात्रेयिका दत्तकरावलम्बा । सञ्चारयामास तटाजिरेषु बालं निशावल्लभमम्बुराशेः ॥ १७ ॥ अन्ते वसन्नभ्यधिकोन्नतस्य गुरोश्वरायोदयपर्वतस्य । पुत्रो निधेः प्रौढवपुर्जलानां पूर्णः कलाभिः प्रवभूव कालात् ॥ १८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175