Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीअलङ्कारमण्डनम्.
अभ्यासं तु परस्परोत्तरमिति त्वद्दुर्जनाः कुर्वते कान्तेऽसौ परमामृतोऽधरमणिः सौजन्यमालम्बते ॥ ७० ॥
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अकस्मिन्ननेकानि यथा
कारुण्यं परमं परोपकरणव्यापारचिन्ता सदाऽनिच्छा वस्तुनि दुर्लभेऽपि विभवत्यागे समासक्तता / एते यस्य गुणा लसन्ति हृदये धन्यात्मनः सोऽनिशं गोविन्दस्य पदारविन्दयुगले भृङ्गत्वमापद्यते ॥ ७१ ॥ अन्योऽन्यमाह
अन्योऽन्यं वस्तुनोर्यत्र क्रियया रम्यता भवेत् । तदन्योऽन्यमिति ख्यातोऽलङ्कारः को विदेर्यथा ॥ ४६ ॥ रचयति यमुनाजलं मुरारेर्द्विगुणितनीलिमशोभमङ्गमाशु | हरिप तदथो शरीरकान्त्या रुचिरतरं महतां स्वभाव अवम् ७२ अथ विरोधमाह -
यथा
यत्र शब्दार्थरचितं विरुद्धत्वं प्रकाशते । अस्वतस्तु तं प्राहुर्विशेधाख्यं मनीषिणः ॥ ४७ ॥ चन्द्रोज्वलोsपि रक्तस्तव पदकमलेऽस्मि देव गोविन्द ! | जडमपि भवतः पदगं बुद्धिकरं योगिनां भवति ॥ ७३ ॥
*
अथवा
इन्दुकराः शरपाताश्चन्दनरसबिन्दवः स्फुलिङ्गौघाः । मम जीवितेश चेतस्यभवन्भवतो वियोगात्तौ ॥ ७४ ॥
३९
विरहानलदलिते मे मनसि महानसौ कान्तसन्तापः तस्मिन्निवासरसिकश्चित्रं यज्जीवितोऽसि पुनः ॥ ७५ ॥
For Private and Personal Use Only

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175