Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलङ्कारमण्डनम्. महतां किं धनं ? कीर्तिनिधयो न रमापतेः ॥ ९८॥ अनृजुत्वं तव दृशि तत्स्तब्धत्वं तव कुचद्वये कठिने । मन्दत्वं गतिविभवे हरिणाक्षि ! न दृश्यतेऽन्यत्र ॥ ९९ ॥ क्लेशः संमृतिभंजने न चिन्तने त्रिपुरवैरिणो।
महतां चिन्ता तत्त्वविवेके न कामिनीसङ्गमे कृतिनाम् ॥१०॥ सममाहपरस्परं तु साम्येन योगः सम्भाव्यते यदि । लाध्यत्वाद्वस्तुनोयंत्र समं तत्परिकीर्तितम् ।। ६६ ॥ त्वं रूपसम्पदनुपम्यशरीरयष्टि
रिन्दीवराभरुचिराङ्गरुचिश्च कृष्णः । योगो युवां भवति चेद्यमुनातटेऽस्मिन्
दग्धो हरेण किल जीवति पञ्चबाणः ॥ १०१॥ कारणमालामाह
यत्रान्त्यमन्त्यं पूर्वस्य पूर्वस्यार्थस्य कारणम् । पदा भवति सा मोक्ता बुधैः कारणमालिका ॥६॥ साधुत्वं ज्ञायते पुण्यात्पुण्यं तत्साधुसङ्गमात् ।
साधुसङ्गो हरिप्राप्त्या तदवाप्तिस्तु योगतः ॥ १०२ ॥ समासोक्तिमाह
यत्रान्यस्यापदेशेन क्रियतेऽन्यस्य निश्चयः ।
कथ्यते सा समासोक्तिर्यथाऽलङ्कारकोविदैः ॥६॥ कोमलामिह रसालकमालां पीननव्यफलसंनमिताङ्गीम् । संविहाय पिक ! यासि दुरात्मन्वञ्चितोऽसि किल त्वद्विधिनैव।।१०३।।
For Private and Personal Use Only

Page Navigation
1 ... 169 170 171 172 173 174 175