Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलङ्कारमण्डमम्.
यत्कुक्षिदेशे लसति जगदप्यणुसन्निभम् ।
स मुरारिः स्थितो यत्र तत्साधोानसं महत् ॥ ८९ ।। अनुमानमाह
साध्यसाधकयोक्तिः प्रकटा यत्र दृश्यते ।
अनुमानमलङ्कारं तं वदन्ति विचक्षणाः ॥ ५८ ।। भ्रूवल्लरीपल्लवविभ्रमस्ते यस्योपरिष्टात्स तु दैन्यमुक्तः। , . सजायते कृष्ण ! ततस्त्वदीया दास्येव लक्ष्मीः किल दृश्यतेऽसौ९० अतद्गुणमाह
संभवत्यपि योग्यत्वे वस्तुनाऽन्यस्य वस्तुनः ।
गुणेन नैव रज्येत यत्र सोऽतद्गुणः स्मृतः ॥५९॥ मृदुकुसुम सम कुरङ्गदृष्टे ! तव हृदयं कठिनत्वमेति नैव । यदपि च कठिनस्तनद्वयेन प्रतिदिवसं निकटस्थितेन युक्तम् ॥९॥ एकावलीमाह
आद्यस्य सति चारुत्वे तथाप्युत्तरमुत्तरम् । रम्यता क्रियतेऽर्थस्य कथितैकावलीति सा ॥६०॥ तरुणी भूरिचातुर्या चातुर्य दीप्तमन्मथम् ।
मन्मथोऽमोघसन्धानो वैराग्यं क्वाद्य योगिनाम् ॥९२।। मीलितमाह
यस्मिन्सदृशचिह्नन वस्तुना वस्तु गोप्यते ।
सहजेनाथवाऽन्येन तन्मीलितामिति स्मृतम् ।।६।। त्वलोचने कोपसमुद्भवोऽपि रागोऽधरस्थः स न दृश्यतेऽद्य । कान्तेऽतिपानान्मधुनः सुरक्ते वक्रेन्दुबिम्बे हरिणायताक्षि ! ॥९३॥
For Private and Personal Use Only

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175