Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 167
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीलङ्कारमण्डनम्. यथावायस्यैव शल्यं हृदये प्रविणं तस्यैव पीडेति तदन्यथेश !। मिन्दन्ति बाणास्तव वैरिवर्गास्तदङ्गनानामसवः प्रयान्ति ॥८॥ विषममाह द्वयोरघटमानत्वायोगस्त्वाश्चर्यकारकः । यत्रोच्यते तं विषममलङ्कारं तु मेनिरे ।। ५२ । केदं ममोरः कठिनं क ते पादाम्बुजं मृदु । मा पीडा तव विप्रेति कृष्णः श्रीवत्समावदत् ।। ८२ ॥ व्याजोक्तिमाह मिषेण केनचियत्र वस्तुरूपपलोपनम् । असावलकृतिः पाझैाजेक्तिरिति कथ्यते ॥ ५३ ॥ सख्याः पुरः कुचतटे करजं स्वकीये व्यालोक्य कापि तरुणी त्रपितेत्यवादीत् ।। चौतोऽपि चन्दनरसैः सखि ! कुडकुमाङ्को नायं प्रलुप्यति कथं कथयास्य हेतुम् ॥ ८३ ॥ अर्थान्तरन्यासमाह सामान्येन विशेषो वा विशेषेण तदुच्यते । कथ्यतेऽर्थान्तरन्यासः सधद्विाऽअधर्मतः ॥ ५४ ॥ कालोपहतभाग्यानां सुधा सापि विषायते । विरहव्याकुलहृदश्चन्द्रमा ह्यनलोपमः ॥ ८४ ॥ प्रत्यनीकमाह अशक्तो द्वन्द्विनो वैरे यस्तत्सम्बनिनं पुनः । पीडयेच्च तदुत्कर्ष प्रत्यनीकं तदुच्यते ॥ ५५ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175