Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलकारमण्डनम्.
समाधिमाह
यत्सिध्यति सुखेनैव कारणान्तरयोगतः । कारणेऽपि सति प्रोक्तः स समाधिस्तु कोविदैः ॥६९| अद्याजिगमिपुः कान्तः प्राप्तोऽयं दिवसोऽवधेः ।
उज्जृम्भितश्च भगवान्वसन्तो. मम भाग्यतः ।।१०४|| सूक्ष्ममाह
केनचियत्र धर्मेण गूढोऽर्थः संप्रकाश्यते ।
कस्यचित्पतिपत्त्यर्थ सूक्ष्मं तत्परिकीर्तितम् ॥७॥ निमील्य नयनद्वन्द्वं परितस्तु विभ्रमय्य कराङ्गुलिकाम् । स्वैरिणिका प्रियपुरतश्चन्द्रं ममार्ज भालगं काचित् ॥१०॥ परिकरमाह
भाषितं यदभिप्राययुक्तैस्तु स्याद्विशेषणैः।
अलङ्कारः परिकरः स बुधैः कथ्यते यथा ॥७१॥ अलकृता चन्द्रमुखी सुवेषा. चेतोहरा मन्मथगोष्ठिकाभिः। प्रेमाञ्चिता यवनशालिरूपा सा कामिनी कस्य मुदे न पुंसः ॥१०६ संसृष्टिमाह
स्थितिरेकत्र यत्र स्यादनेकासां तु भेदतः । अलकृतीनां संसृष्टिः कथिता सा बुधैर्यथा ॥ ७२ ॥ वर्षतीव सुधां देव ! विबुधानन्ददायिनी। तव वाकचन्द्रिका चन्द्रतुल्यवक्त्रप्रकाशिता ॥ १०७ ॥
अत्र 'सुधां वर्षतीव' इति उत्प्रेक्षा, 'विबुधानन्ददायिनी ! इति श्लेषः, 'वाक्चन्द्रिका।' इति रूपकम् , ' चन्द्रतुल्यवक्त्रप्रकाशिता' इत्युप्रमा, एतेऽलङ्कारा अस्मिन् श्लोके मुख्याः परस्परं दृश्यन्ते।
For Private and Personal Use Only

Page Navigation
1 ... 170 171 172 173 174 175