Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 170
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनम्. सारमाह यत्रोत्तरोत्तरं सारासारं सारं तु पूर्वतः । निश्चीयते स साराख्योऽलङ्कारः समुदाहृतः ॥६२॥ राज्येषु विमवः सारं विभवे च महाव्ययः । महाव्यये च धर्मार्थो धर्मार्थे पात्रसङ्गमः ॥ ९४ ॥ सामान्य माह वस्त्वन्तरेण प्रकृतं वस्तु यत्र मलोप्यते । अन्योऽन्यगुणसादृश्यात्तत्तु सामान्यमुच्यते ॥६३॥ कनकमन्दिरमध्यगतं हरं तदमितांशुकसंवलितं पुनः नहि ददर्श गिरेस्तनया क्षणं क्षणमपि प्रहितेक्षणसत्वरा ॥९५|| व्याघातमाह एकेन कृतमन्याहगन्येन क्रियतेऽन्यथा । तेनैव साधनेनासौ व्याघातः परिकीर्तितः ॥६४॥ . • वचसा निर्मिता निन्दा वचसैव निराकृता । यै ते तु स.धवो धन्याः खलगवापहारिणः ॥९६।। परिसंख्यामाह प्रश्नादप्रश्नतो वापि यत्किश्चिद्वाक्यमुच्यते । अन्यस्य तु निरासाय परि संख्या स्मृतेति सा ॥६५॥ किं शीतलं ? हिमकरस्य कराः किमच्छं ___ साधोर्मनः किममृतं ? कमलेशनाम । किं दुखहारि ? हरपादपयोजसेवा यच्छीलनेन न पुनर्मनुजत्वमस्ति ।। ९७ ।। · भूषणं विदुषां किं ? वाक् , न रत्नं स्वर्णसङ्गतम् ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175