SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. महतां किं धनं ? कीर्तिनिधयो न रमापतेः ॥ ९८॥ अनृजुत्वं तव दृशि तत्स्तब्धत्वं तव कुचद्वये कठिने । मन्दत्वं गतिविभवे हरिणाक्षि ! न दृश्यतेऽन्यत्र ॥ ९९ ॥ क्लेशः संमृतिभंजने न चिन्तने त्रिपुरवैरिणो। महतां चिन्ता तत्त्वविवेके न कामिनीसङ्गमे कृतिनाम् ॥१०॥ सममाहपरस्परं तु साम्येन योगः सम्भाव्यते यदि । लाध्यत्वाद्वस्तुनोयंत्र समं तत्परिकीर्तितम् ।। ६६ ॥ त्वं रूपसम्पदनुपम्यशरीरयष्टि रिन्दीवराभरुचिराङ्गरुचिश्च कृष्णः । योगो युवां भवति चेद्यमुनातटेऽस्मिन् दग्धो हरेण किल जीवति पञ्चबाणः ॥ १०१॥ कारणमालामाह यत्रान्त्यमन्त्यं पूर्वस्य पूर्वस्यार्थस्य कारणम् । पदा भवति सा मोक्ता बुधैः कारणमालिका ॥६॥ साधुत्वं ज्ञायते पुण्यात्पुण्यं तत्साधुसङ्गमात् । साधुसङ्गो हरिप्राप्त्या तदवाप्तिस्तु योगतः ॥ १०२ ॥ समासोक्तिमाह यत्रान्यस्यापदेशेन क्रियतेऽन्यस्य निश्चयः । कथ्यते सा समासोक्तिर्यथाऽलङ्कारकोविदैः ॥६॥ कोमलामिह रसालकमालां पीननव्यफलसंनमिताङ्गीम् । संविहाय पिक ! यासि दुरात्मन्वञ्चितोऽसि किल त्वद्विधिनैव।।१०३।। For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy