SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीअलङ्कारमण्डनम्. अभ्यासं तु परस्परोत्तरमिति त्वद्दुर्जनाः कुर्वते कान्तेऽसौ परमामृतोऽधरमणिः सौजन्यमालम्बते ॥ ७० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अकस्मिन्ननेकानि यथा कारुण्यं परमं परोपकरणव्यापारचिन्ता सदाऽनिच्छा वस्तुनि दुर्लभेऽपि विभवत्यागे समासक्तता / एते यस्य गुणा लसन्ति हृदये धन्यात्मनः सोऽनिशं गोविन्दस्य पदारविन्दयुगले भृङ्गत्वमापद्यते ॥ ७१ ॥ अन्योऽन्यमाह अन्योऽन्यं वस्तुनोर्यत्र क्रियया रम्यता भवेत् । तदन्योऽन्यमिति ख्यातोऽलङ्कारः को विदेर्यथा ॥ ४६ ॥ रचयति यमुनाजलं मुरारेर्द्विगुणितनीलिमशोभमङ्गमाशु | हरिप तदथो शरीरकान्त्या रुचिरतरं महतां स्वभाव अवम् ७२ अथ विरोधमाह - यथा यत्र शब्दार्थरचितं विरुद्धत्वं प्रकाशते । अस्वतस्तु तं प्राहुर्विशेधाख्यं मनीषिणः ॥ ४७ ॥ चन्द्रोज्वलोsपि रक्तस्तव पदकमलेऽस्मि देव गोविन्द ! | जडमपि भवतः पदगं बुद्धिकरं योगिनां भवति ॥ ७३ ॥ * अथवा इन्दुकराः शरपाताश्चन्दनरसबिन्दवः स्फुलिङ्गौघाः । मम जीवितेश चेतस्यभवन्भवतो वियोगात्तौ ॥ ७४ ॥ ३९ विरहानलदलिते मे मनसि महानसौ कान्तसन्तापः तस्मिन्निवासरसिकश्चित्रं यज्जीवितोऽसि पुनः ॥ ७५ ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy