SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम् स्मरणमाह अनुभूतेन सदृशे दृष्टे वस्तुनि जायते । केनचियत्र धर्मेण स्मृतिस्तत्स्मरणं स्मृतम् ॥४८॥ कान्तावियोगव्याथितो निकामं दृष्ट्वोदितं पार्वणशर्वरीशम् । संस्मृत्य त्यस्या वदनेन्दुबिम्बमालव्य धैर्य किल जीवितः सः ७६ सन्देहमाह एतदेतच्चेति बुद्धया यत्र वस्तुनि संशयः । स सन्देहस्तु भेदोक्तावभेदोक्तौ च दृश्यते ॥ ४९ ॥ ... चन्द्रः सोऽयं चेत्कलको न देहे मेघः किं नो शक्रकोदण्डयुक्तः । शर्वश्वेत्किं तद्गुणैर्नानुयाप्तः त्वां दृष्ट्वैवं देव ! सर्वे वदन्ति ७७ किं बालमेघो गगनावतीर्णः किं कज्जलाद्रिनरवेषधारी । • इत्यं कवीन्द्राः सरसोक्तिदक्षास्त्वां पुण्डरीकाक्ष ! विलक्षयन्ति ७८ आक्षेपमाह निषेधो वक्ष्यमाणोक्तविषयोऽत्र दृश्यते । प्रस्तुतस्य स आक्षेपो विद्वद्भिः परिकीर्तितः ॥ ५० ॥ ___. अन्तर्गृहं विश मृगाक्षि ! विना प्रियेण गोत्रं दहन्ति मलयाचलचारुतास्ते । नो चेदथोदितभृगावकरप्रभिन्ना वेगादसूस्त्यज शठः स समैति यावत् ।। ७९ ॥ अपि भिन्नस्थिती धर्मों साध्यसाधमतां गतौ । एकत्र यत्र दृश्यते सा सङ्गतिरुदाहता ।। ५१ ॥ त्वत्कृपाणप्रभा श्यामा मूर्ध्नि स्फुरति वैरिणाम् । दृश्यन्ते च कथं चण्डि : तद्रामाः कालिकावृताः ८० ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy