Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 163
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डन अभ्यासं तु परस्परोत्तरमिति त्वदुर्जनाः कुर्वते कान्तेऽसौ परमामृतोऽधरमणिः सौजन्यमालम्बते ॥७॥ अस्मिन्ननेकानि यथाकारुण्यं परमं परोपकरणव्यापारचिन्ता सदा ऽनिच्छा वस्तुनि दुर्लभेऽपि विभवत्यागे समासक्तता एते यस्य गुणा लसन्ति हृदये धन्यात्मनः सोऽनिशं गोविन्दस्य पदारविन्दयुगले भृङ्गत्वमापद्यते ॥ ७१ । अन्योऽन्यमाह अन्योऽन्यं वस्तुनोर्यत्र क्रियया रम्यता भवेत् । तदन्योऽन्यमिति ख्यातोऽलङ्कारः कोविंदैर्यथा ॥४६॥ रचयति यमुनाजलं मुरारेर्द्विगुणितनीलिमशोभमङ्गमाशु । . हरिरपि तदथो शरीरकान्त्या रुचिरतरं महतां स्वभाव अवम् ७२ अथ विरोधमाह यत्र शब्दार्थरचितं विरुद्धत्वं प्रकाशते । अतत्त्वतस्तु तं पार्विरोधाख्यं मनीषिणः ॥ ४७॥ चन्द्रोज्वलोऽपि रक्तस्तव पदकमलेऽस्मि देव गोविन्द !। जडमपि भवतः पदगं बुद्धिकरं योगिनां भवति ॥ ७३ ।। यथा इन्दुकराः शरपाताश्चन्दनरसबिन्दवः स्फुलिङ्गौघाः। मम जीवितेश चेतस्यभवन्भवतोवियोगात्तौ ॥ ७४ ।। अथवाविरहानलदलिते मे मनसि महानसौ कान्तसन्तापः । रिमन्निवासरसिकश्चित्रं यजीवितोऽसि पुनः ।। ७५ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175