Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलकारमण्डनम्.
२९ संमृग्य चित्रमृगमेष विषादमाप्तः सद्यः पलायनमतिं कुरुते कुरङ्गः ॥ १८ ॥ व्याधस्योक्तिरियम् । वस्तुद्वयस्य साधादभेदो रूपकं स्मृतम् ।
समस्तव्यापकमथासमस्तव्यापकं तु तत् ॥ १८ ॥ समस्तव्यापकं यथा
तारावलीविमलमौक्तिकभूषिताङ्गी चन्द्रप्रभाधवलचन्दनचारुलेपा ।
सन्ध्याभवाऽरुणिमकुङ्कुमसूक्ष्मरेखा
द्योकामिनी दिवसकान्तमपेक्षतेऽसौ ॥ १९ ॥ असमस्तं यथा
किं करिष्यति रे दुष्टसंसार ! तव चेष्टितम् । ।
श्यामलः कृष्णजलदः सदा जीवनदोऽस्ति नः ॥२०॥ अथोपमामाह
उपमा कथ्यते साम्यमुपमानोपमेययोः । वाचकमत्ययाव्ययतुल्यार्थसपासमा ॥ १९ ॥ यस्योपरि यथेवायाः स्युस्तस्यैवोपमानता । निष्फलीयति संसारं निःसारीयति जीवितम् ।
लोष्ठीयति निधानं च जनः श्रीपतिसेवकः ॥ २१ ॥ यथा च
व्योमायते प्रबलनीलिम यस्य वक्षो दीप्तो दिनेश इव राजति कौस्तुभाख्यः ।
पद्यानुजः स्फुरति यस्य गभीरनाभिभृङ्गस्थितिः कमल जश्व हरिः स पातु ॥ २२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175