Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 156
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. कार्यकारण योश्चैव परस्परविपर्ययः । चतुर्थ्यतिशयोक्तिः सातिशयार्थश्च पञ्चमी ॥ २६॥ क्रमेण उदाहरणानि श्यामलकमलद्वितयं कनकघटाविन्द्रनीलनीलमुखौ।। घटितौ काञ्चनवल्लयां कल्याणमयीति सा देवी ॥ ३४॥ यदियोगेयद्यञ्जनाद्ररुपरि प्रभूतं हेम्नो रजः स्याच्छुरितं नितान्तम् । तदानुकुर्यात्तव पीतचैलप्रभा घनश्यामलरुक्मिणीशः ॥ ३५ ॥ प्रस्तुतान्यता यथा अन्यादृशः स्फुरति यस्य महान्प्रभाव: चातुर्यमप्यसदृशं घटना तथान्या । अन्यद्वपुश्च महतामपि चित्तचौरं संज्ञायते जगति कैरपि गोपवेषः ।। ३६ ॥ कार्यकारणविपर्ययो यथाभीमात्मजाया हृदि ते गुणौघश्चके पदं पूर्वमपूर्वसौख्यः । ततस्त्वमिन्दीवरसुन्दराभो मनस्विनीमानहरो मुरारे ! ॥ ३७॥ अतिशयार्थो यथाश्रीरामचन्द्र ! भवतोऽद्य सविक्रमाङ्का गीतिं निशम्य सुरकिन्नरसुन्दरीभ्यः । चन्द्रे नुदत्यपि मुदा स्वरसौख्यलुब्धो रात्रिं चतुर्युगधरां कुरुते कुरङ्गः ॥ ३८ ॥ दीपकं प्रस्तुतान्यता सकृद्धर्मस्य वर्तनम् । कारकस्य सकृत्तिरमितासु क्रियासु च ॥ २७ ॥ माला गुणावहं चेत्स्यादेतदेवोत्तरोत्तरम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175