Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलकारमण्डनम्. कवेरसवती वाणी स्वर्णदी धर्म निर्णयः ।। श्रीकृष्णस्य पदद्वन्द्वमधमाय न रोचते ॥ ३९ ।। दोलायते बिभेत्याशु विलोकयति कम्पते।
गच्छति स्विद्यति चमूररीणां कृष्णदर्शने ॥ ४० ॥ मालादीपकं यथात्वत्तो बाहुबहुतश्चक्रमुग्रं चक्राद्विर्य विर्यतो दैत्यनाशः । तस्माल्लोको लोकतः सौख्यमेकं वृद्धं कृष्णेति त्वयि मापतीन्द्रे ४१
समानधर्मोपमेयोपमानमतिबिम्बनम् ।
दृश्यतेऽत्र स प्रोक्तो दृष्टान्तस्तु मनीषिभिः ॥ २८ ॥ पुण्डरीकनयनस्य दर्शने याति पापमखिलं किल जन्तोः । उद्यते दिवसनाथमण्डले ध्वान्तमेति भुवनत्रितयस्य ॥ ४२ ॥
इवादिभिर्विना यत्र वस्तुनः प्रतिवस्तुना ।
साम्यं प्रकाश्यते सा तु प्रतिवस्तूपमा मता ॥ २९ ॥ यथाचन्द्रोऽङ्गतापं हरति प्रकामं ददाति तोयं जलदः सदैव । सूर्यस्तमो हन्ति किमत्र चित्रं परोपकारे महतां स्वभावः ॥४३॥ निर्वापकोऽयमेवैको जलधेरभवच्छशी । वसन्ते पुष्पिताः सर्वे तर वः किं सुगन्धयः ।। ४४ ॥ अप्रस्तुतेन यत्र स्यात्मशंसा प्रस्तुतस्य तु ।
अप्रस्तुतप्रशंसा सा कथिता बहुभेदगा ॥ ३० ॥ अभन्सुपक्वानि फलानि तोयं पिबन्सदा निर्झरजं सुशीतम् । बिभ्रन्मुदा तारववल्कलानि वने सुखं तापसवृन्दमेति ॥ ४५ ॥ व्यतिरेकमाह
साधारणगुणैः साम्ये वस्तुनोः सति यद्यपि । आधिक्यं तत्र मुख्यस्य व्यतिरेकः स कथ्यते ॥ ३१ ॥
For Private and Personal Use Only

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175