SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनम्. कवेरसवती वाणी स्वर्णदी धर्म निर्णयः ।। श्रीकृष्णस्य पदद्वन्द्वमधमाय न रोचते ॥ ३९ ।। दोलायते बिभेत्याशु विलोकयति कम्पते। गच्छति स्विद्यति चमूररीणां कृष्णदर्शने ॥ ४० ॥ मालादीपकं यथात्वत्तो बाहुबहुतश्चक्रमुग्रं चक्राद्विर्य विर्यतो दैत्यनाशः । तस्माल्लोको लोकतः सौख्यमेकं वृद्धं कृष्णेति त्वयि मापतीन्द्रे ४१ समानधर्मोपमेयोपमानमतिबिम्बनम् । दृश्यतेऽत्र स प्रोक्तो दृष्टान्तस्तु मनीषिभिः ॥ २८ ॥ पुण्डरीकनयनस्य दर्शने याति पापमखिलं किल जन्तोः । उद्यते दिवसनाथमण्डले ध्वान्तमेति भुवनत्रितयस्य ॥ ४२ ॥ इवादिभिर्विना यत्र वस्तुनः प्रतिवस्तुना । साम्यं प्रकाश्यते सा तु प्रतिवस्तूपमा मता ॥ २९ ॥ यथाचन्द्रोऽङ्गतापं हरति प्रकामं ददाति तोयं जलदः सदैव । सूर्यस्तमो हन्ति किमत्र चित्रं परोपकारे महतां स्वभावः ॥४३॥ निर्वापकोऽयमेवैको जलधेरभवच्छशी । वसन्ते पुष्पिताः सर्वे तर वः किं सुगन्धयः ।। ४४ ॥ अप्रस्तुतेन यत्र स्यात्मशंसा प्रस्तुतस्य तु । अप्रस्तुतप्रशंसा सा कथिता बहुभेदगा ॥ ३० ॥ अभन्सुपक्वानि फलानि तोयं पिबन्सदा निर्झरजं सुशीतम् । बिभ्रन्मुदा तारववल्कलानि वने सुखं तापसवृन्दमेति ॥ ४५ ॥ व्यतिरेकमाह साधारणगुणैः साम्ये वस्तुनोः सति यद्यपि । आधिक्यं तत्र मुख्यस्य व्यतिरेकः स कथ्यते ॥ ३१ ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy