SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनम्. २९ संमृग्य चित्रमृगमेष विषादमाप्तः सद्यः पलायनमतिं कुरुते कुरङ्गः ॥ १८ ॥ व्याधस्योक्तिरियम् । वस्तुद्वयस्य साधादभेदो रूपकं स्मृतम् । समस्तव्यापकमथासमस्तव्यापकं तु तत् ॥ १८ ॥ समस्तव्यापकं यथा तारावलीविमलमौक्तिकभूषिताङ्गी चन्द्रप्रभाधवलचन्दनचारुलेपा । सन्ध्याभवाऽरुणिमकुङ्कुमसूक्ष्मरेखा द्योकामिनी दिवसकान्तमपेक्षतेऽसौ ॥ १९ ॥ असमस्तं यथा किं करिष्यति रे दुष्टसंसार ! तव चेष्टितम् । । श्यामलः कृष्णजलदः सदा जीवनदोऽस्ति नः ॥२०॥ अथोपमामाह उपमा कथ्यते साम्यमुपमानोपमेययोः । वाचकमत्ययाव्ययतुल्यार्थसपासमा ॥ १९ ॥ यस्योपरि यथेवायाः स्युस्तस्यैवोपमानता । निष्फलीयति संसारं निःसारीयति जीवितम् । लोष्ठीयति निधानं च जनः श्रीपतिसेवकः ॥ २१ ॥ यथा च व्योमायते प्रबलनीलिम यस्य वक्षो दीप्तो दिनेश इव राजति कौस्तुभाख्यः । पद्यानुजः स्फुरति यस्य गभीरनाभिभृङ्गस्थितिः कमल जश्व हरिः स पातु ॥ २२ ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy