Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलङ्कारमण्डनम्मोला दीपकदृष्टान्तौ प्रतिवस्तूपमा तथा । अप्रस्तुतप्रशंसा च व्यतिरेको विभावनां ।। ५ ।। विशेषोक्तिर्विनोक्तिश्व पर्यायोक्तः समुच्चयः ॥ व्याजस्तुतिः सहोक्तिश्व परिवृत्तिस्तु तद्गुणः ॥६॥ निदर्शना यथासमयं भ्रान्तिमांस्तुल्ययोगिता । पर्यायश्च तथाऽन्योऽन्यं विरोधः स्मरणं पुनः ॥७॥ सन्देहाख्यस्तथाssक्षेप सङ्गतिर्विषमोऽभिधः । व्याजोक्त्यर्थान्तरन्यासौ प्रत्यनीकं च भाविकम् ॥८॥ उदात्तमधिकं चैवमनुमानम तद्गुगः ।
एकावली मीलितं च सारः सामान्यकं तथा ॥ ९॥ व्याघातः परिसङ्ख्या च समं कारणमालिका | समाधिश्व समासोक्तिः सूक्ष्मं परिकरस्तथा ॥ १०॥ संसृष्टिः शङ्करश्वाथानिश्चयाख्यः स्मृता अमी । पुनरुक्तवदाभासो यथा
अर्थ एक इवाभाति शब्दानां भिन्नरूपिणाम् । पुनरुक्तवदाभासः कथ्यते सोऽशन्दयोः ॥ ११ ॥
यथा---
घनजलदश्यामाङ्गः सकमलपुण्डरीकनिभनयनः । निर्मलमानसचित्तः श्रीकृष्णो हरतु पापं वः ॥ १ ॥ अथ वक्रोक्तिमाह
प्रस्तुतार्थादन्यार्थः क्रियते बुद्धिवैभवात् । भङ्गश्लेषेण काका वा वक्रोक्तिः सा निगद्यते ॥ १२ ॥
ङ्गेन यथा
कल सबलोऽसि त्वं कास्ते मयि हलायुधः । ननु कान्तोच्यते राम्रो वेत्सि दाशरथिं प्रिये ! ॥ २ ॥
For Private and Personal Use Only

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175