Book Title: Kavyanushasanam Satikam
Author(s): Kashinath Sharma
Publisher: Kashinath Sharma

View full book text
Previous | Next

Page 302
________________ २८९ ६ अध्यायः] काव्यानुशासनम् । स्वातन्त्र्याङ्गत्वसंशयैकपद्यैरेषामेकत्र स्थितिः संकरः। परस्परनिरपेक्षत्वं स्वातन्त्र्यम् । उपकारकत्वमङ्गत्वम् । एकस्य ग्रहेऽन्यस्य त्यागे साधकबाधकप्रमाणाभावादनिर्णयः संशयः । एकस्मिन्पदेऽर्थाच्छब्दार्थालंकारयोः समावेश ऐकपद्यम् । एभिरेषां पूर्वोक्तानामलंकाराणामेकत्र वाक्ये वाक्यार्थे वावस्थानं संकीर्यमाणस्वरूपत्वासंकरः। स्वातन्त्र्येण शब्दालंकारयोः संकरो यथा--- 'कुसुमसौरभसौरपरिभ्रमद्भमरसंभ्रमसंभृतशोभया । वलितया विदधे कलमेखलाकलकलोऽलकलोलशान्यया ॥' अत्र यमकानुप्रासयोः । J त्विति। अग्नेधूम इत्येवंरूपमित्यर्थः ॥ नन्वीहशस्य हेतो«द्यत्वाभावादलंकारत्वं मा भवतु । यत्र तु-वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे नैवास्मि क्षणमपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यतनुरहमग्रेऽपि भविता महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥' इत्यादौ, 'भस्मोद्धूलन भद्रमस्तु भवने रुद्राक्षमाले शुभं हा सोपानपरम्परां गिरिसुताकान्तालयालंकृतिम् । अद्याराधनरोषितेन विभुना युष्मत्सपर्यासुखालोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ॥' इत्यादौ च अपराधद्वये पूर्वापरजन्मनोरनमनलक्षणो हेतुर्वाक्याथीभूतो महामोहे सुखालोकोच्छेदित्वलक्षणश्च पदार्थीभूतो हृद्यतयावसीयते तत्र कथं सालंकारत्वमिति ॥ सत्यमस्ति । हृद्यता परं न हेतोः, किं तर्हि अलंकारान्तरस्य । तथा हि प्रथमे उदाहरणेऽनुमानस्य रामणीयकम् , द्वितीये तु मोक्षस्य महामोहतया रूपणमिति रूपकस्येति हेतुर्नालंकारः । तनिराकरणेन तद्रूपं काव्यलिङ्गमपि निराकृतमेवेति । एवं च 'हेतुमता सह हेतोरभिधानमभेदेतो हेतुः।' इत्येवंरूपोऽपि हेतुर्न वाच्यः । 'आयुघृतं नदी पुण्यं भयं चौरः सुखं प्रिया । वैरं द्यूतं गुरुर्ज्ञानं श्रेयो ब्राह्मणभोजनम् ॥' इत्येवंरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात् । गौणे [पचारे सादृश्यसंप्रत्ययाद्वैचित्र्यम् । यत्र तु न सादृश्यसंप्रत्ययस्तत्र नेति ॥ 'अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाभरः कालः ॥' इत्यत्र तु काव्यरूपतां कोमलानुप्रासमहिनैव समाम्नासिषुः, न तु हेत्वलंकारकल्पनयेति ॥ यद्यप्यव्यभिचारितयैव विकासादीनां नैरन्तर्येण जननमिहोपचारप्रयोजनं व्यङ्गयम, १. 'तोषितेन' का० प्र०. २. '-दकृद्भवेद्यत्र । सोऽलंकारो हेतुः स्यादन्येभ्यः पृथग्भूतः ॥' इत्येवं रुद्रटे समुपलभ्यते. ३. 'पूजनम्' रुद्रटव्याख्या. ४. 'करः' रुद्रटे.

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376